________________
50
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
तत्त्वमुक्ताकलापः आनातश्चैष नारायण इतिनिखिलब्रह्मविद्यासु वेद्यस्तत्तद्विद्याप्रदेशश्रुतविविधपदप्रत्यभिज्ञप्तिपूर्वम् ॥
सर्वार्थसिद्धिः प्रसिद्धतमलिङ्गानुरोधेन धातृप्रभृतिशब्दानां योगत एव मुख्यत्वमेष्टव्यम् । किंच नारायणानुवाके “ सहस्रशीर्ष देवं" इत्यादिभिः पुरुषसूक्तप्रभृतिसर्वपरविद्यावेद्यं पुरुष प्रत्यभिज्ञाप्य तस्य नारायणत्वं बहुशोऽभ्यस्तम् । अतो यत्रयत्र परब्रह्मपरतत्त्वपरज्योति परमात्मादिशब्दा 1दृष्टास्तत्र नारायण एव प्रतिपाद्यत इति निश्चीयते । अतः परतत्त्वनिर्णयेऽयमेवानुवाकः पर्याप्त इत्यभिप्रायेणाह-आम्रात इति ॥ ८ ॥ तथाऽपि त्वाष्टवधादिलिङ्गैः प्रसिद्धेन्द्रादिविषयालु मोक्षार्थविद्यासु
आनन्ददायिनी धात्रादिशब्दः, शक्तत्वात् । तथाऽप्यन्यत्र प्रयुक्तत्वेन संदेहात् 'सन्दिग्धे तु वाक्यशेषात्' इति न्यायेन वाक्यशेषवल्लिङ्गं बलवदिति भाव.। केचित्तु-यववराहाधिकरणन्यायेन वाक्यार्थनिर्णयेऽपि लिङ्ग प्रयोजकामत्याहुः । परविद्येति । पुरुषसूक्तप्रभृति ‘शंभुराकाशमध्ये ध्येयस्तं देवा जोतिषां ज्योतिः' इत्यादिपरविद्या विवक्षिताः । यतः सर्वविद्यावेद्यमनूचैव नारायणत्वं विदधाति तस्मादित्यर्थ । 'आम्नातश्चैष नारायणः' इत्यत्र यतिभङ्गो नाशयः ; नारशब्दस्य पदत्वात् स्वरसन्धेश्च ॥ ८॥
ननु यदि लिङ्गबलाद्देवताविशेषपरत्वं, तर्हि लिङ्गबलादिन्द्रादि-परत्व वा किं न स्यादित्याक्षपसंगतिरित्याह - तथाऽपीति ।
1 दृष्टास्तत्र सर्वत्र-घ. 2 परत्वमपि किं-ग.