________________
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः उक्तं नारायणाधिष्ठितमिति च तमोऽनेकबाधोन्यथा स्यात्
सर्वार्थसिद्धिः धिष्ठातति स्पष्टमुक्तम् । तदेतत्सर्वमभिप्रेत्याह-उक्तमिति । एवमनभ्युपगमे बहुश्रुतिस्मृतीतिहासादिबाधः स्यादित्याह- अनेकबाध इति ।
आनन्ददायिनी आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वतः । ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः । योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तस्सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुट्ठभौ । सोऽभिध्याय शरीरात् स्वास्सिसक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवढेमं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः॥ इत्याधुपबृंहणशतैस्तमसो नारायणाधिष्ठितत्वावगमात् 'पुरोवादनिणीतार्थसापेक्षस्य तद्विरुद्धार्थविधानायोगाच्च । तथाऽपि शिवशब्दो माङ्गल्यपरः सन् जगत्कारणताप्रयुक्तदोषाभावं सूचयतीति भावः । वस्तुतस्तु-एकवाक्यताविरोधाच्छिवत्व न विधेयमिति बोध्यम् । बहुश्रतीत्यादि । महोपनिषन्मुण्डकतैत्तिरीयकविष्णुपुराणभारत
1 पुरोवादसा-क. 2 तदाऽपि-क.