________________
सरः ३ ] तमोधिष्ठातृनारायणस्य कारणत्वानभ्युपगमे सर्वश्रुतिस्मृतिव्याकोपः 43
तत्त्वमुक्ताकलापः
ब्रह्मेशादेर्महत्यामुपनिषदि लयायुक्तमेव तु
नात्र ॥ ६ ॥
अपि च नारायणकारणत्वप्रतिपादिकायां महोपनिषदि " न ब्रह्मा नेशानो नेमे द्यावापृथिवी " इत्यादिना नारायणात् ब्रह्मेशानयोरुत्पत्त्यादिकं श्रुतम् । " यदा तमः" इति वाक्ये, “न दिवा न रात्रिः " इत्येतावदुक्तम् । एतेन " हिरण्यगर्भस्समवर्तताग्रे " इति वाक्यमपि निरूढम् । "अस्संभूतो हिरण्यगर्भ इत्यष्टौ " इति तद्विषयानुवाकान्तरसमानार्थत्वसिद्धेश्चेति ॥ ६ ॥
सर्वार्थसिद्धिः
आनन्ददायिनी
1
ज्योतिश्शास्त्रादिविरोधः स्यादित्यर्थः । किं च ' यदा तमः' इति वाक्यं महोपनिषदाद्येकार्थत्वेन नारायणपरं भवितुमर्हति । महोपनिषद्वाक्यं तु श्वेताश्वतराद्येकार्थतया रुद्रपरं भवितुं 1 नाहति विरोधादित्याह - अपि चेति । श्वेताश्वतरादौ नारायणस्य निषेधरूपेण लयो वा रुद्रादुत्पत्तिर्वा न श्रूयत इति महोपनिषदैकार्थयं संभवतीत्यर्थः । एतेनेति । नारायणादिनिषेघाभावात् तस्मादपि नारायणस्योत्पत्त्य प्रतिपादनाद्धिरण्यगर्भशब्दस्य रूढ्यङ्गीकारेऽपि 'हिरण्यगर्भो भूगर्भः' इति नारायणेsपि रूढिसम्भवाच्चतुर्मुखपरत्वेऽपि सकलप्राणिवर्गापेक्षया प्राथम्यमादायाप्युपपत्तेर्नारायणकारणत्वाविरोध इत्यर्थः ।
वस्तुतस्तु - नारायणानुवाकशेषत्वात्तदैकार्थ्येन योगवृत्त्यादिद्वारेण नारायणपरमित्याह – अद्भयस्सम्भूत ति ।
1 अर्हति - गर्वा श्रू - ग.
6
"
अद्भ्यः सम्भूतः '