________________
40
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
तत्त्वमुक्ताकलापः
स्तस्माद्धयेयः श्रुतोऽसौ शिव इति शिव एवेति वाक्यं त्वनूक्तिः ।
सर्वार्थसिद्धिः
स्तत्रापि शाश्वतशिवानुवादेन ध्यान विधीयते । नैतावता प्रसिद्ध शिवस्य श्रुतिविरुद्धं कारणत्वं कल्पयितुं शक्यमित्याह - तस्मादिति । असौविष्णुरेव । महापुरुषवेदनस्य हि मुक्तिहेतुत्वं प्रतिपाद्य " नान्यः पन्था [ अयनाय विद्यते ] " इति नियम्यते । ननु " यदा तमस्तत् " इति वाक्ये शिव एव केवल इत्युच्यते, अतः प्रसिद्ध शिवः कारणमित्यत्राह - शिव एवेति । इदं तावद्वाक्यं न कारणतमसः प्रतिपादकं यदेति
[नायक
आनन्ददायिनी
4
शिरोग्रीवं ' इत्यारभ्य ' तस्मात् 'सर्वगतः शिवः' इत्यादावित्यर्थः । नैतावतेति । अन्यपरशिवशब्दमात्रादित्यर्थः । ननु रुद्रपरत्वाभावेऽपि भगवत्परत्वं कथमित्यत्राह - असौ विष्णुरेवेति । " शाश्वतं शिवमच्युतं नारायणं महाज्ञेयम्' इत्याद्युक्तेरिति भावः । श्रुत्यन्तरं ' चाह - महापुरुषवेदनस्येति । " तमेवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते " इति निषेधान्मोक्षसाधनीभूतवेदनविषयत्वात् स शिवो विष्णुरेवेति भावः । तत्र किं तमोविधिपरं वाक्य, यद्वा शिवविधायकमिति विकल्पयाद्यं दूषयति-न कारणतमसः प्रतिपादकमिति । ननु तद्वाक्येऽपि तमस एव कारणत्वं न तु
9
1
युक्तयन्तरं - ग.