________________
सरः ३] प्रवृत्तिनिमित्तपौष्कल्याद्विष्णोवव शंभ्वादिपदानां मुख्यताऽन्यत्र गौणताच 39
तत्त्वमुक्ताकलापः विष्णोरप्यस्त्यभिख्या शिव इति शुभतारूढि रत्रानुपाधि
सर्वार्थसिद्धिः वृत्तिः, किंतु नामतयाऽपीत्याह-विष्णोरिति । “सर्वश्शर्वश्शिवः स्थाणुः" इति हि तन्नामसहस्र पठ्यते । ननु शुभतया रुद्रेऽस्य रूढिः स्यादित्यत्राह-शुभतेति । शुभतया जनिता ह्यस्य रूढिः " मङ्गलानां च मङ्गलम् " इत्यादिमिर्निरुपाधिकशुभत्वशालिनि भगवत्येव युक्ता । अन्यत्र तु तद्गुणलेशयोगाद्वत्तिः स्यात् । प्रसिद्धिप्रकर्षस्तु प्रणववेदादिषु ब्रह्मशब्दवत् प्रचुरप्रयोगमात्रात् स्यात् । यत्र तु शिवस्य ध्येयत्वोक्ति
आनन्ददायिनी तथा चात्रापि सैन्धवादिवत् विरुद्धत्वान्न स्वयं निर्णयाय प्रभवतीति भावः। रूढिशक्त्यङ्गीकारेऽपि लिङ्गाद्यनुगृहीतया रूढया नारायण एव वृत्तिः स्यादिति दर्शयति-किं विति। तत्र रूढिशक्तौ प्रमाणमाह-सर्व इति । ननु शुभतमत्वमेव प्रवृत्तिनिमित्तं, न तु निमित्तान्तरमनेकार्थत्वकल्पने गौरवात् । तथा च शिवादन्यत्र तत्प्रयोगस्य गुणयोगेनाप्युपपत्तेः। सहस्रनामपठनस्य च 'यानि नामानि गौणानि' इत्युक्तया रूढिसाधकत्वाभावादिति-शङ्कते-नन्विति। तर्हि निरुपाधिकशुभत्वशालिनि भगवत्येव प्रवृत्तिनिमित्तपोष्क'ल्यात् प्रवृत्तियुक्ता, न तु रुद्रादाविति भावः। ननु शिवशब्दस्य रुद्रे प्रवृत्तिनिमित्त२ पौष्काल्याभावे प्रसिद्धिप्रकर्षो न स्यादित्यत्राह-प्रसिद्धिप्रकर्षस्त्विति। ब्रह्मशब्दस्य वेदादौ लाक्षणिकत्वादिति भावः । यत्र विति । 'सर्वानन.
1ल्यावृत्तियु-ग. 2 पौष्कल्यप्रसिद्धि-ग.