________________
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
-
सर्वार्थसिद्धिः ततः किम् ? कारणानुवादेन ध्येयत्वविधिपरं हीदं वाक्यम् । पुरोवादे च नारायणत्वनिर्णये तस्मिन्निरुपाधिकावयवार्थभूना , तद्वत्ति'रुपपन्ना । अत एव नारायणानुवाकेऽपि 'विश्वशम्भुवम् ' ' इत्युच्यते, 'शाश्वतं शिवम्' इति च। अतोऽन्यपरवाक्यस्थसमाख्यामात्रमकिञ्चित्करमिति भावः ॥ ५ ॥ शिवशब्दस्य न केवलं शुभा[डया] दिपौष्कल्यमात्रान्नारायणे
आनन्ददायिनी साधारण्येन नारायणपरत्वविरोधाभावादिति वदन्ति। समाख्यया न किंचिदित्याह-ततः किमिति । तदेवोपपादयति-कारणानुवादेनेति । पुरोवादे चेति । यथाप्राप्त्यनुवादस्य युक्तत्वात् । किं च योगार्थस्य पूर्वमुपस्थितत्वात् रूढ्यङ्गीकारेऽपि वाजिनन्यायन तत्तिरस्कार इत्याह-अवयवार्थभृग्नेति। अवयवार्थपौष्कल्यमाहअत एवेति । शिवशब्दो यद्यपि देवताविशेषे सूढः, तथाऽप्यर्थान्तरेऽपि रूढतया सैन्धवादिवदर्थप्रकरणाद्यपेक्षो न स्वयमेवार्थनिर्णये समर्थः। अन्यथा यववराहाद्यधिकरणवैयर्थ्यात् । तत्रापि व्यवहारद्वयबलादुमयत्र शक्तावपि निर्णयसंभवात् । यववराहादिवच्चोदनाया अप्रामाण्याभावात् । नारायणादिप्रकरणपालोचनायां तत्परत्वं सिद्धमिति न देवतान्तरगन्ध इति ॥५॥
ननु यत्र नानार्थे प्रकरणाद्यपेक्षा तत्र नानार्थानां सामान्यविशेषभावाभावेनैकत्रोपसंहारा सामर्थ्यम् । अत्र तु योगरूढिस्थल इव प्रवृत्तिनिमित्तद्वयेनापि विशेषणविशेष्यभावन उभयार्थविशिष्टशिवोपासनविधिसंभवादित्याक्षेपणाह-शिवशब्दस्य न केवलमित्यादिना।
1 रुपपन्ना। तथा च नारा-पा. सामर्थ्यात् अत्र-ग.