SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सरः ३] समाख्याबाधकश्रुत्या नामतश्च शंभ्वादिपदानामपि नारायणपरत्वम् 37 आनन्ददायिनी लक्षणमुक्तम् । तत्राभिधानश्रुतिः पदार्थोपस्थापिका श्रीह्यदिशब्दात्मिकेति मीमांसकमर्यादा । तथाच शक्तिमत्त्वमेव श्रुतित्वमिति पर्यव - सितत्वात् शम्भुशब्दोऽपि श्रुतिरेवेति कथं समाख्या । किं च ' शब्दादेव प्रमितः' इत्यधिकरणे " शब्दश्रुतिः - ईशानो भूतभव्यस्य इतीशानशब्दः " इति भाष्याद्युक्तमपि विरुध्येतेति चेत् । अत्र वदन्ति- शम्भु - शब्दो न रूढः । असंज्ञायामेव डुप्रत्ययस्य मुख्यत्वात् । यद्यपि मितद्वादिष्वविशेषेण विधानं व्याख्यातं ; तथापि विध्वादिषु चरितार्थत्वेन प्रोक्षणीन्यायेन शक्तय कल्पनात् । न च नामानुशासनबलाद्भूढिः । द्विरे' फाद्यनुशासने व्यभिचारात् । तत्रैव चन्द्रशेखर त्रिपुरान्तकगङ्गाघरादीनां केवलयौगिकानामनुशासनात् । तस्माद्वयाकरणानुसाराद्धौत्रौद्गात्राध्वर्यवादिसमाख्यावद्यौगिकार्थबलादर्थान्तरगमका इति समाख्येव समाख्या । न च शब्दादेवेत्यधिकरणभाष्यादिविरोधः । पदद्वयश्रुतिरित्यर्थत्वात् । प्रकृतिप्रत्यययोर्लिङ्गाद्यपेक्षया शीघ्रभावित्वात् । अत एव तृतीयद्वितीयाश्रुत्या करणत्वकर्मत्वप्रतीतावपि परस्परशेषशेषिभावस्य वाक्यगम्यस्य शैघ्रयात् लिङ्गस्य दुबलत्वम्, अत्र प्रकृतिप्रत्यर्यौथकत्वं, तत्र पदद्वयात्मकत्वमिति न विशेष इति । केचित्तु - ' ईशानः' इत्यत्रेशानश्रुतिरेवाभिप्रेता । तेन कर्तृत्वमसंकुचितं भासमानं जीवासंभावितं झटिति प्रकृत्यर्थेनैवान्विनभैन्द्रीन्यायेन लिङ्गादि बाघते । न चैवमत्रापि तथा वक्तुं शक्यम् | कर्तृत्वमात्रस्य प्रकृत्यर्थान्वितस्य वा 1 रेफादिष्वनु - ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy