________________
36
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप
नायक
तत्त्वमुक्ताकलापः कारणं चान्तरात्म
त्यस्मादप्यैककण्ठयं भवति निरुपधिस्तत्र शम्भ्वादिशब्दः॥५॥
सर्वार्थसिद्धिः दिव्यो देव एको नारायणः' इति । एतेनान्तर्यामिब्राह्मणमप्येतद्विषयामिति निर्धारितम् । ततः किमित्यत्राह-कारणमिति ! “तत् सृष्टा तदेवानुप्राविशत्" इत्यादिना हि सर्वस्रष्टुस्सर्वान्तर्यामित्वमप्याम्नातम् । फलितमाहअस्मादिति । नारायणशब्देन सदादिशब्दानामिति शेषः । ननु " कारणं तु ध्येयः" इत्यत्र " शम्भुराकाशमध्ये" इति समाख्यान्तरं दृष्टम् ,
आनन्ददायिनी मिब्राह्मणे ' यः पृथिव्यां तिष्ठन्' इत्यादौ विशेषपदाभावादन्तर्यामिपरत्वमात्रेण न विशेषसिद्धिरित्यत्राह-एतेनान्तर्यामिब्राह्मणमपीति । सौबालेऽन्तर्यामित्वस्यैव नारायणैकनिष्ठत्वावगमात्तदैकार्थेन तदपि नारायणस्यैव प्रतिपादकमिति भावः । नन्वस्तु नारायणस्यान्तर्यामित्वं ; कारणत्वमन्यस्यास्त्वित्याशङ्कयाह-तत्सृष्टुति। कारणस्यान्तर्यामित्वावगमात् तस्य नारायणसाधारणतया कारणं नारायणमेवावगमयतीत्यर्थः । समाख्यान्तरं दृष्टमिति । ननु निरपेक्षः शब्दः श्रुतिरिति श्रुति
1 रित्याह-ग.