________________
सरः३] सद्ब्रह्मादिशब्दाना तत्समानप्रकरणपठितनारायणशब्देन विशेषपरत्वम् 35
तत्त्वमुक्ताकलापः सद्ब्रह्माद्यास्तमानप्रकरणपठिताश्शङ्कितान्यार्थशब्दाः।
अन्तर्यन्ता च नारायण इति कथितः
सर्वार्थसिद्धिः योगिषु सर्वेषु प्रवृत्ततया न विशेषनिर्धारणाहः । ब्रह्मशब्द एकरूढोऽपि बहुषु रूढवत्प्रयुक्ततयाऽन्यार्थत्वशङ्कार्हः स्यात् । आत्मशब्दश्च जीवपरादिसाधारणप्रयोगः। एवं पुरुषप्राणाक्षरादिशब्दा अपि । नारायणशब्दस्तु न जात्युपाधिवचनो न वाऽनेकरूढः। अतस्तेनान्येषां विषयविशेषनिर्धारणं युक्तम् । तत्र च हेतुः समानप्रकरणपठितत्वम् ; अन्यथा पश्वधिकरणादेरपि भङ्गः स्यात् । प्रकारान्तरेणापि निर्दिधारयिषुराहअन्तर्यन्तेति । यथा सुबालोपनिषदि 'एष सर्वभूतान्तरात्माऽपहतपाप्मा
आनन्ददायिनी अन्यथेति । 'पशुना यजेत' इत्यत्र पशुशब्दस्य 'छागस्य पाया मेदसः' इति मन्त्रवर्णगतच्छागपरत्वं ‘च्छागो वा मन्त्रवर्णात् ' इति व्यवस्थापित न स्यादित्यर्थः । अक्ताधिकरणादिरादिशब्दार्थः । यद्यप्यत्र न समानप्रकरणत्वं तथाऽपि सामान्यस्य विशेषशब्देन निर्णय इत्यत्र तात्पर्यम् । किं च सदादिशब्दाः सामान्यत्वाद्विशेषपराः । तथाऽन्तर्यामिणो विशेष्यत्वात्तदुप'स्थापकादपि तत्परा इत्याह-प्रकारान्तरेणेति । नन्वन्त
1 स्थापनादपि-क.