SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक 31 सर्वार्थसिद्धिः सदादिशब्दानां कथं शकितान्यार्थत्वम् ? इत्थम्-सच्छब्दस्तावत् सत्ता आनन्ददायिनी चोमालक्ष्म्योरैक्यभेदयोरविशिष्टः । ननु तथा सति भस्मत्रिपुण्डरुद्राक्षादिधारणप्रसङ्ग इति चेन्न । तेषां नित्यतया विद्याङ्गत्वेन वा प्रमाणसिद्धत्वे दुष्परिहरत्वात् । वैदिकागमबहिष्कृतत्वे तु तत एव त्यागात् । अत एवार्वशिरस्युक्तविद्याङ्गभस्मोद्धलनास्वीकारः । न चैवं चक्रावं. पुण्डधारणं विप्राणां नियतं न स्यादिति वाच्यम् । तेषां प्रामाणिकत्वेन उपनयनादिवन्नैयत्यसिद्धेः । एतेन वैष्णवावैष्णवाद्याचारव्यवस्था न स्यादित्यपास्तम् । विष्ण्वादिनिष्ठ त्वेनैव च तद्वयवस्थोपपत्तेरिति चेत् । उच्यते-यद्यपि जगत्कारणादिवाक्यान्यप्येकनिष्ठान्येव । उपनिषदुतोपास्यमपि पुण्डरीकाक्षत्रयक्षलक्ष्मीगौयुपेतं वस्त्वप्येकमेव। तथाऽपि क्वचिज्जीवविशिष्टोपासनं, कचिदविशिष्टोपासनमिति भिदा विद्यते । 'यत्र तु जीवलिङ्गं तत्र तद्विशिष्टोपासनमिति। तथाच परदेवतानिर्धारणाभावे अयं जीव इदं जीवलिङ्गमिति निर्णयाभावाद्यथावदुपासनं न स्यादिति महान्विशेषः । किं च परत्वनिर्णयाभावे मुमुक्षूणां विष्ण्वादिशरणागत्यनुष्ठानं न स्यात् । अपरदेवतायाः परिमितफलदत्वेन मोक्षदातृत्वायोगात् । एवं कर्मादावप्यपरदेवतायजन परिमितफलदं परदेवतायजनमपरिमितानन्तफलदमिति तन्निर्णयसापेक्षत्वमिति भावः । विस्तरस्तु-मदीयपरत्वदीपिकायां द्रष्टव्यः पुरुषनिर्णयो यामुनाचार्यकृतप्रबन्धविशेषः। ननु सदादिशब्दा न नानार्थाः, नाना शक्त्यभावादित्यभिप्रायेण शङ्कते-सदादिशब्दानामिति । 1 त्वेन च त-क. 2 स्यं पु-क. ३ वस्त्वेक-क. 4 यत्र जी-क. । ति निर्णयासापेक्षत्वमिति प्रयोजनमस्ति। विस्त-क. 8 शक्तिभा-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy