________________
सरः ३] सामान्यप्रवृत्त केवलसद्ब्रह्मादिशब्दानां विशेषनिर्धारणानहत।
33
तत्त्वमुक्ताकलापः निस्साधारण्यनारायणपदविषये निश्चयं यान्त्यबाधे
सर्वार्थसिद्धिः एवमीश्वरस्य त्रय्यन्तवेद्यत्वं शब्दवाच्यत्वं च स्थापितम् । स हिरण्यगर्भादिष्वन्यतम इति शङ्कायां पुरुषनिर्णयादिसाधितं विशेषनिर्धारणं संगृह्णाति-निस्साधारण्येति। साधकबाधकाभ्यामप्राप्ते शास्त्रमर्थवदित्यभिप्रायेणोक्तम्-अबाध इति ।
आनन्ददायिनी पूर्वशेषत्वान्न पृथक्संगतिरित्यभिप्रायेणाह-एवमिति । हिरण्यगर्भादिष्विति । ननु 1 विशेषनिर्धारणस्य न किञ्चित् प्रयोजनं दृश्यते । रुद्रादिपदचिह्नितोपनिषदामपि प्रमाणतया तदुक्तोपासनानामप्यङ्गीकारात्। तथाच वेदान्ते प्रतिपाद्यं जगत्कारणमेकम् । तन्त्रेष्वन्य तमादस्तु तद्विशेषनिर्णयोऽकिञ्चित्करः। तथाहि-दहरविद्यायामङ्गुष्ठमात्र उपास्यः। अन्तरादित्यविद्यायां पुण्डरीकाक्षत्वादिविशिष्टः। कचित्रयक्षशूलपाण्यादिविग्रहविशिष्ट उपास्यः । कारणवाक्यान्यपि ‘एको ह वै नारायण आसीत् ' ' यदा तमस्तन्न दिवा न रात्रिः' 'न सन्न चासच्छिव एव केवलः' 'प्रजापतिर्वा एक एवाग्र आत्'ि इत्यादीनि तान्येकार्थान्यास्थेयानि । तथा कचिल्लक्ष्मीशब्दवाच्यविशिष्टः, ' हश्चि ते लक्ष्मीश्च पत्न्यौ' इत्यादौ । क्वचिदुमाशब्दार्थविशिष्टः ‘ उमासहायं नीलकण्ठं प्रशान्तम् ' इत्यादौ । स सर्वोऽप्येक एवेति सिद्धान्तः । स
स एक-ग.
1 विशेषणनि-क. 2 तरदस्तु-क. SARVARTHA VOL. IV.