________________
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः मुख्यत्वे वाधकं च क्वचिदपि न वयं किञ्चिदालोकयामो
मुख्य लक्ष्यं च वाचः पदमिति न च तद्गोचरत्वातिपातः॥४॥
सर्वार्थसिद्धिः लक्षणानिमित्त चात्र नास्तीत्याह-मुख्यत्व इति । कचिदपिसद्बह्मादिशब्देषु कुत्रचिदपीत्यर्थः। किंच श्रुतिविरोधपरिहाराय मुख्यवृत्तिबाध इष्टः; लक्षणावृत्त्यङ्गीकारेऽपि तद्विरोधस्ते स्थित एवेत्याहमुख्यामिमि । विरोधशमनं त्वस्म दुक्तमेव साधीय इति भावः ।। ४ ॥ इति सब्रह्मादिशब्दानां नित्यलक्षकत्वानुपपत्तिा.
आनन्ददायिनी भावाल्लक्षणैव न स्यात् । भावे वा घटादिकमपि तथेति ब्रह्माणि को विशेषः । यदि धर्मान्तरवत्तया लक्ष्यता तदा निर्विशेषसिद्धिर्नास्तीति व्यर्थः प्रयास इति भावः। तद्विरोधस्ते स्थित एवेति । “यतो वाचो निवर्तन्ते " इति वाङ्मात्रनिवृत्तिः प्रतीयते ; न तु सम्बन्धविशेषेण । तथा च मुख्यवृत्तिनिवृत्तावुच्यमानायां मानाभावाल्लक्षणावृत्तिरेव निवर्तता, विनिगमकाभावात्। तस्मादविशेषेण वृत्तिमात्रनिवृत्तिर्वाच्यति विरोधस्तदवस्थ इति भावः । तर्हि श्रुतेः का गतिरित्यपेक्षायामाहअस्मदुक्तमेवेति। ब्रह्मानन्दस्यापरिच्छेद्यताप्रतिपादने तात्पर्यमित्युक्तगतिरित्यर्थः ॥ ४॥
सब्रह्मादिशब्दानां लक्षकत्वानुपपत्तिः. 1 लोचया-पा. 2 दिष्टमे-पा. ३ निवर्तिता विनि-ग. 4 वृत्तिर्वाच्येति-क. 5 श्रुतेस्तु-ख. ग.