________________
सरः ३] ब्रह्मणः काल्पनिक मुख्यवृत्तिविषयतावादस्य निरासः
तत्त्वमुक्ताकलपः
हानेर्न च निपुणधियो मुख्यमिच्छन्ति लक्ष्यम् ।
सर्वार्थसिद्धिः
वर्तत इति वक्तव्यम् । न चान्यत् किञ्चिदवाच्यं दृष्टमिष्टं वा । तदभ्युपगमेऽप्यत्र ब्रह्मण तत्संबन्धित्वं साधितं स्यात् ; न त्ववाच्यत्वम् । स्वयंप्रकाशत्वादिति हेतु पदं त्वत्र स्वयंप्रकाशसबन्धिपरं स्यात् । तथा सत्यन्यत् स्वयंप्रकाशम्, ब्रह्म तु सत्संबन्धिमात्रमिति साधु सिद्धान्तस्समर्थित' । अथ काल्पनिकं मुख्यवृत्तिविषयत्वं ब्रह्मणः स्यादित्यत्राह - न चेति । अथ भावः - त्वन्मतेऽन्येषामपि हि मुख्यत्वं काल्पनिकमेव | तथा सति यस्य पदस्य यन्मुख्यं तत्तस्य लक्ष्यमिति तवैवेदं शोभते । आनन्ददायिनी
31
लक्षणेत्ययुक्तमिति चेत् । अत्र वदन्ति समुदायेऽपि काचिच्छक्तिरस्त्येव, तदनु' सृत्यैतस्याभिधानम् । अत एव महाभाष्ये समर्थ सूत्रे
ब्राह्मणार्थो यथा नास्ति कश्चित् ब्राह्मणकम्बले ।
इत्यादिना तदुक्तिरिति । एतेन स्वयंप्रकाशसम्बन्धीत्यादिकमपि व्याख्यातम् । ननु मुख्यस्य लक्ष्यत्वमनुपपन्नमिति मन्दम् मुख्यशक्तेर्मिथ्यात्वादित्यत्राह - अयं भाव इति । यस्य पदस्येति । ननु घटपदस्य घट एव च्छिद्रेतरपरत्वे लक्षणाऽङ्गीकृता ; तथा काकेभ्यो द िरक्ष्यतामित्यत्र काकपदस्य काकेष्विति चेत् — उच्यते । यत् पदं यत्प्रवृत्तिनिमित्तकं तत्पदं तद्धर्मान्याप्रकारेण न लाक्षणिकामिति नियमः । प्रकृते च ब्रह्म बृहत्त्वगुणयोगेन वाच्यमिति न तेन रूपेण लाक्षणिकं ब्रह्मपदम् । यदि स्वरूपेण लक्षणा तदा लक्ष्यतावच्छेदका
1 पद चात्र - घ. छ.
2 सृत्यैतदभि - ग.