SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 30 सव्याख्य सर्वार्थसिद्धिसहिततश्वमुक्ताकलापे तवसुक्ताकलापः [नायक मुख्यस्यान्यस्य सर्वार्थसिद्धिः कुत इत्यत्राह - मुख्यस्येति । तीरं गङ्गापदलक्ष्यमितिवन्मुख्यवृत्त्य नह किंचिन लाक्षणिकं दृष्टम् । सामान्यतो विशेषतो वा स्ववाचकपदान्तरनिर्दिष्टे हि पदान्तरस्य लक्षणा वाच्या । अन्यथा ब्रह्मादिशब्दा लक्षणया प्रवर्तन्त इत्युक्ते परेष्टमात्रोक्तः स्यात् । व्यक्तिविशेषमनिष्कृष्य ब्रह्मशब्दवेद्ये लक्षणया प्रवर्तन्त इत्युक्तेऽपि प्रकृत्यादौ तथा प्रवृत्तेरुक्तदोषो दुर्वारः । अथ सर्वकारणत्वादिलक्षिते लक्षणावृत्तिर्ब्रह्मादिशब्दानां साध्येत, तदा तत्र मुख्यवृत्तौ न काचिदनुपपत्तिः ; प्रवृत्ति - निमित्तपौष्कल्यादुपपत्तिरेव | अन्यस्य तु मुख्यस्य हानिः ; तद्गुणलेशयोगात् प्रयोगोपपत्तेः । साध्यवाचकपदमप्यवाच्य संबन्धिनि लक्षणया आनन्ददायिनी उत लक्षणामात्रमिति विकल्प्याद्य आह-- तीरमिति । तथा च व्याघात इति भावः । तदेवोपपादयति - सामान्यत इति । द्वितीय आह- अन्यथेति । ब्रह्मादिशब्दा लक्षणया प्रवर्तन्त इतीष्टापत्तिरिति भावः । किं च ब्रह्म शब्दवेद्यं इत्यत्रापि सामान्यतो लक्षणा ; यद्वा व्यक्तिविशेषानर्देशनेति विकल्प्याद्यं दूषयति- वृत्तिविशेषमनिष्कृष्येति । द्वितीयमाशङ्कते - अथेति । तत्र किं प्रवृत्तिनिमित्ताभावात् लक्षणा ; यद्वाऽन्यत्र शक्तस्य नानार्थत्वभीत्येति विकल्प्य आद्य आह – प्रवृत्तिनिमित्तेति । बृहति बृहयतीति श्रुत्युक्तस्य प्रवृत्तिनिमितस्य पूर्णत्वादित्यर्थः । द्वितीयं प्रतिवक्ति - अन्यस्य त्विति । साध्यवाचकेति । ननु अवाच्यपदं शक्तं अवाक्यत्वात्तथा च तत्सम्बन्धिनि 1 नन्ववाच्यपदं न शक्त वाक्यत्वात्तथा च तत्संबन्धिनि लक्षणेत्युक्तमिति चेत्-क. ख. 1
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy