________________
सरः ३]
ब्रह्मादिशब्दानां नित्यलाक्षणिकत्ववादस्य निरासः
29
तत्त्वमुक्ताकलापः नित्यं ब्रह्मादिशब्दा निरुपधिकसतो लक्षका इत्ययुक्तं
सर्वार्थसिद्धिः वृत्तिमात्रस्य स्वपरसंमतत्वेन वाच्यत्वा निश्चयेऽपि प्रयोगोपपत्तेः ।
दुस्साधं कचिदप्येवमवाच्यत्वादि कस्यचित् । किं पुनस्सर्ववचसा प्रतिष्ठा यत्र तत्र तु ।। ३ ॥
इत्यवाच्यत्वावेद्यत्वपरिहारः. ननु लक्षणया धादिपदानि प्रवर्तन्ताम्, मुख्यवृत्तिविषयत्वाभावस्तु साध्यत इति को विरोध इत्यत्राह-नित्यमिति । अयुक्तत्वं
__आनन्ददायिनी इत्यत्राह -वृत्तिमात्रस्येति । तथा च प्रयोक्तः श्रोतुश्चेदमस्य बोधकामति ज्ञानमव प्रयोजक, न तु विशेषज्ञानमिति भावः । वस्तुतस्तुविशेषतोऽपि ज्ञानमस्त्येव प्रयोक्तुः शक्तत्वेन श्रोतुस्तदन्यवृत्तिमत्त्वेन । न चैवं सिद्धसाधनबाधादिदोषः; कथायामनुमानोच्छेदापतेः । कस्य चित् वचसः, प्रतिष्ठाभूतेऽपि क्वचित् वस्तुनि, एवं उक्तरीत्या वाच्यत्वादि, दुःसाधं साधयितुमशक्य, सर्ववचसां समस्त शब्दानां, प्रतिष्ठा वाचित्वं यत्र ब्रह्मणि, तत्र किं पुनः, दण्डापूपिकानयसिद्धमित्यर्थः ।। ३ ।।
अवाच्यत्वादिभङ्ग.. ननु लाक्षणिकशब्देन पक्षादिनिर्देशे न मिथो विरोध इत्याक्षेपण संगतिमाभप्रेत्याह--नन्विति । अत्र किं धर्मिविशेष लक्षणा साध्यते
1 निर्णयेऽपि-घ. 2 पक्षादिकमुच्यत इति नोक्तदोष इति शङ्कते--नन्विति । लक्ष्यं स्ववाचकपदबोध्य न वा इति विकल्प्याच आह--सामान्यत इति-क. ख.