________________
28
सव्याख्यसर्वार्थसिद्धिसाहिततत्त्वमुक्ताकलापे
नायक
सर्वार्थसिद्धिः साध्यं साधयेत् । एवमनुग्राहकतर्केऽपि धर्मिप्रसञ्जकप्रसञ्जनीयपदेषु विहतिरवधार्या । प्रतिप्रयोगोऽपि---विगीतं वेद्यं वाच्यं च, भासमानत्वादिति । नात्र द्वितीयस्य व्यक्त्याऽनैकान्त्यम् ; जातिवद्वयक्तेरपि वाच्यत्वस्य वक्ष्यमाणत्वात् ; युष्माकं च तत्र विमत्यभावात् । नन्वत्र धर्मिपदस्य घर्मिणि मुख्यवृत्तिरसिद्धा, सिषाधयिषितावस्थत्वात् । उपचाराभ्युपगमे तु विवक्षितविरोधः स्यात् । मैवम् ;
आनन्ददायिनी साधयेदित्याद्धेत्वाभासोऽपीत्यर्थः । एवमिति । यदि ब्रह्म वाच्यं न स्यात् अवेद्यं न स्यात् जडं स्यादित्यत्रापि पक्षादिपदेषु द्रष्टव्यम् । ननु गवादिपदानां जातिवाचकतया व्यक्तर्वाच्यत्वाभावाद्वाच्यत्वसाधने व्यभिचार इत्यत्राह-नात्रेति । युष्माकमिति । ब्रह्मणो वाच्यत्वे जडत्वं स्यात् घटादिवदिति वदता वाच्यत्वस्याङ्गीकारात् । अन्यथा 'ब्रह्मवाच्यं यदि स्याज्जडं स्यात् घटादिवदित्यापादनस्यापि प्रसङ्गेन तुल्यदोषापत्तेरिति भावः । नन ब्रह्म वाच्यं वेद्यं चेत्यनुमाने ब्रह्मपदेन पक्षनिर्देशो नोपपद्यते, तस्य तद्वाचकत्वसन्देहात् । ततस्तदप्रतीते.
राश्रयासिद्धिरपार्थकता च स्यादिति शङ्कते-नन्विति । विवक्षितविरोध इति । यद्यपि ब्रह्मपदलक्ष्यस्य पदान्तरवाच्यत्वेऽपि विरोधो नास्ति, तथाऽपि ब्रह्मपदवाच्यत्वं न सिध्यदित्यर्थः । पक्षनिर्देशो वृत्तिविशेषनिर्णयपूर्वक एवेति निर्बन्धो नास्तीत्यप्रयोजकत्वादित्याभप्रायेणाह-मैवमिति । ननु पदानां प्रयोगो व्युत्पत्त्यधीनः ; व्युत्पत्तिश्च शक्तिनिर्णयः, तन्मूलकवृत्त्यन्तरनिर्णयो वा, तथा च न दोषातिक्रम
1 त्तद्धत्वा-ग. 2 ब्रह्मावाच्य-क. ब्रह्मावाच्य-क. 4 रज्ञानासिद्धि-ग,