________________
सरः ३] ब्रह्मणो वाङ्मनस गोचरत्वेऽपि तदगोचरताबोधकश्रुतस्तात्पर्यकथनम् 25
तत्त्वमुक्ताकलापः वाञ्चित्तागोचरत्वश्रुतिरपि हि परिच्छित्त्यभावप्रयुक्ता :
सर्वार्थसिद्धिः एवं साक्षिण्यप्यवेद्यत्वग्रहणा युक्तिर्भाव्या । ग्राहकान्तरैरग्राह्य गृह्यत इत्याविरोध इति चेत्तर्हि घटादेरप्यवेद्यत्वं सिद्धम् ; स्वग्राहकेतराग्राह्यत्वात् । यैश्च त्रय्यन्तैरवाच्यत्वादिकं सिषाधयिषसि, त एव स्वयं वाच्यत्वादिकमभिदधति — तस्योदिति नाम' 'अथ नामधेयं सत्यम् ' इत्यादिषु तद्वाचकविधानात् । सर्वे वेदा यत्रैकं भवन्ति' 'यो वेद निहितं गुहायां परमे व्योमन् ' ' यत्प्रयन्त्यभिसंविशन्ति ' तद्विजिज्ञासस्व' येनाक्षर पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ' इत्यादिषु वाक्यतोऽन्यतश्च वेद्यत्वप्रतिपादनादिति । तर्हि ' यतो वाचो निवर्तन्ते' इत्यादेनिर्विषयत्वप्रसङ्ग इत्यत्राह-वाञ्चित्तति । 'सैषाऽऽनन्दस्य मीमांसा भवति' इत्यादिना ब्रह्मानन्दस्यापरिच्छेद्यताप्रतिपादने हि वाक्यतात्पर्य गम्यते । अन्यथा ‘ब्रह्मविदामोति
आनन्ददायिनी त्राह-एवं साक्षिणीति। तत्रापि नावेद्यत्वं स्वप्रकाशत्वमिति वक्तुं शक्यमिति भावः । ग्राहकान्तरेति । तथा च विरोघ इति भावः । ननु वेदान्तबलादेवावाच्यत्वादिकं सिध्यतीत्यत्राह-यैरिति । अवेद्यत्वमाद्यर्थः। नामनामधेयशब्दौ वाचकत्वबोधकौ। यत्र ब्रह्माणि विषये मुख्यवृत्त्यैकार्थप्रतिपादका भवन्तीत्यर्थः । नन्ववाच्यतादिश्रुतिबलादेव वाच्यवेद्यतादिश्रुतीनामन्यपरत्वं किं न स्यादित्यत्राह-अन्यथेति । ननु
1 नन्वबाध्यतादि-ग.