________________
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
सर्वार्थसिद्धिः भावः-स्वप्रकाशत्वं तावन्निगमवेद्यत्वेऽपि घटते ; दर्शनस्पर्शनाभ्यामेकार्थग्रहणवदुपपत्तेः । अथानन्यवेद्यत्वमेव स्वयंप्रकाशत्वम् ; तदा कथं ततस्तत्साध्यत्वम् ? अवेद्यत्वग्राहकात्तत् साध्यत इति चेत्, किं तद्गाहकम् ? न तावद्ब्रह्मस्वरूपम्, तस्य स्ववेद्यत्वावेद्यत्वयोरुदासीनत्वात् ; अन्यथा तत्र तत्संशयाद्यनुत्पत्तिप्रसङ्गात् । नापि वृत्तिज्ञानानि, तद्गाहकत्वे तदभावे च तदवेद्यत्व साधनायोगात् ।
आनन्ददायिनी त्वादिवदितरावेद्यत्वमिति विकल्प्याद्ये विरोधाभावमाह-स्वप्रकाशत्वमिति । न टेकेन प्रकाशोऽपरप्रकाशविरोधीति भावः । द्वितीयं दूषयति-- अथानन्यवेद्यत्वमिति । तद्दषयति-तदेति । ज्ञानाभावे न स्वसिद्धिरिति भावः। इदमुपलक्षणम् ब्रह्मणोऽपि स्वप्रकाशसिद्धिर्न म्यादिति द्रष्टव्यम् , अभावस्य प्रकाशरूपत्वाभावात् । नन्ववेद्यत्वं म्वेन सिध्यतीति न बमो येनैवमुपालम्भः म्यादिति शङ्कते-अवेद्यत्वग्राहकादिति । तस्येति । नन्ववेद्यत्वं स्वरूपमेव स्वव्यतिरिक्तधर्माप्रकाशेऽपि तत्प्रकाश उपपद्यते । किं च स्वव्यतिरिक्तत्वेऽपि साक्षिणाऽन्तःकरणादेवि प्रकाश उपपद्यत इत्यत्राह-अन्यथेति। तद्दाहकत्वे तदभावे चेति । वृत्तिज्ञानस्य ग्राहकत्वे वेद्यत्वस्यैव सत्त्वेनावेद्यत्वस्याभावात् अग्रहणे च ग्राहकाभावादसिद्धिरित्यर्थः। नन्ववेद्यत्वस्य वृत्तिज्ञानवेद्यत्वेऽपि ब्रह्मणो वेद्यत्वाभावः कथं न स्यात्, भावाभावयोरेकत्र ग्रह एव विरोधादिति चेन्न । न तावद्वेद्यत्वं नास्तीति निरधिकरणाभावप्रतीतिः, तथात्वे ' ब्रह्मणो वेद्यत्वं न स्यात् । न हि वह्निरस्तीति बुद्धया पर्वते वह्रिसिद्धिः । एवं च 'ब्रह्मावेद्यमिति घर्मिणि तद्धीरिति ब्रह्मगोऽपि वेद्यत्वमिति विरोधो दुर्वार इत्यूह्यम् । ननु साक्षिण : स्वप्रकाशत्वमिवेदमुपपद्यते । परैरपि जीवस्य स्वप्रकाशत्वस्वीकारादित्य
1 तत्सयोगाद्य-घ. 2 ब्रह्मापि स्वप्रकाशसिद्ध न स्यादिति-ग. 3 ब्रह्मण्यवेद्यत्व-ग. 4 ब्रह्मवेद्यमिति-ग. वेयत्वमपि-ग. 8 काशत्वाङ्गीकारा-ग.