________________
सरः ३]
ब्रह्मणः स्वप्रकाशत्वेऽपि तस्यावाच्यत्वावेद्यत्वयोस्समर्थनम्
23
तत्त्वमुक्ताकलापः वाच्यत्वं वेद्यतां च स्वयमभिदधति ब्रह्मणोऽनुश्रवान्ताः
सर्वार्थसिद्धिः इति ब्रुवाणाः सार्वश्यं लभन्तां तान्निषेधतः ॥ २ ॥
इतीश्वरस्य निधित्वम्. ननु श्रुतिभिरधिगत इत्याद्ययुक्तम् , स्वयंप्रकाशतया तसिद्धेः; अतो वेद्यत्वमेव न यत्र, तत्र कथं शब्दवेद्यत्वम् ? 'यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह' 'यद्वाचाऽनभ्युदितम्' इत्यादिभिश्च तदुभयं निषिध्यत इत्यत्राह-वाच्यत्वमिति । अयं
आनन्ददायिनी दित्यर्थः । तद्दषयति-इतीति। सर्वज्ञनिषेधवादी प्रष्टव्यः, स किं सर्वज्ञं जानाति न वा , उभयत्राप्याह-निषेधत इति । प्रतियोगिनो ज्ञानाभावे निषेधाभावात्, निषेधे च तज्ज्ञानस्यावश्यकत्वात् स्वस्य सार्वज्ञयं दुर्वारमिति भाव । कचित्तु सर्वज्ञमिति पाठः । तदा से द्धयसिद्धिव्याघात इति भावः । तथा च नागमसिद्धर्बाध इति ध्येयम् । वेदेभ्यम्तिष्ठतः इति मूलस्य वेदान् प्रति बद्धवैरं वैरं प्रकाशयत् स्थातु न समर्थमित्यर्थः । ' श्लाघहस्थाशपां ङीप्स्यमानः' इति चतुर्थी । 'प्रकाशन' इत्यादिना तङ् ॥ २॥
ईश्वरस्य मानबाध्यत्वायोगः. आक्षेपिकी संगतिमाह-नन्वित्यादिना । ननु स्वप्रकाशत्वविरोधाद्वेद्यत्वादिकं नोपपद्यत इति श्रुतिरन्यपरा स्यादित्यत्राह--अयं भाव इति। स्वप्रकाशत्वं नाम स्वेन प्रकाशमानत्वं विवक्षितमुत स्वाधारकत्वात्मेश्वर
1 स्वाधारत्वमात्मे-ख.