SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 22 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे सर्वार्थसिद्धिः [नायक इति । ननु- ददृशुः कपिलं तत्र वासुदेवं सनातनम् । इत्यादिभिः स्वतस्सर्वज्ञपरमकारुणिकावतारतया सिद्धस्य कथमनाप्तत्वशङ्केति चेन्न । बुद्धेऽपि समत्वात् । आविष्टत्वमात्रं तत्रेति चेदत्रापि तथा, विरोधाभावात् । अन्यथा बुद्धादीन् प्रेरयत ईश्वरस्यासुरादिषु विप्रलिप्सा दुस्त्यजा । " मोहयिष्यामि मानवान्" इत्यादि च स्वयमेवाह । अतः पौरुषेयवाक्यमार्षमपि वेदाविरोधेन नेतव्यमिति । एवं निरीश्वरमीमांसका अपि निर्मूला निगमान्तविद्भिरनुग्राह्याः । य ' एवं स्यादसर्वज्ञः सर्वज्ञं न स बुध्यते । आनन्ददायिनी 2 चदुक्तौ कथमनाश्वासोऽन्यथाऽतिप्रसङ्गादित्याशङ्कते - नन्विति । अत्रापीति । सत्यमीश्वरस्य भ्रमाभाव; तथाऽपि कपिलस्येश्वराधिष्ठेयत्वेन वस्तुतस्तदन्यत्वात् यदाऽधिष्ठानं नास्ति तदा भ्रमादिसंभवेन तन्मूलत्वसंभवादिति भावः । ननु तद्विशेषाधिष्ठानमाहात्म्यादेव श्रमाभावात् कथं तन्मूलत्वमित्यत्राह - - अन्यथाऽपीति । ' विप्रलिप्सामूलत्वसभवात्, न चान्यत्राप्यनाश्वासः, वैदिकविरोधरूपत्ववादिति भाव. । नन्वीश्वरस्सर्वज्ञ इत्युच्यते ; स केनचित् ज्ञायते चेत् सार्वज्ञयविशिष्टतया ज्ञानात् सोऽपि सर्वज्ञः स्यादित्यनन्तसर्वज्ञापत्तिः । यदि बोद्धा न सर्वज्ञ, तर्हि स नेश्वरं जानीयात् । तथा चाप्रमितस्य तस्य न सिद्धिरिति चार्वाक पुराणकथां भिक्षित्वा जल्पन्तोऽर्घलोकायतिका भ्रमनिरासेनानुग्राह्या इत्याहएवं निरीश्वरेति । निर्मूलाः भग्नाभिमानाः । य इति । असर्वज्ञो जीवोऽङ्गीकृतः स सर्वज्ञं न बुध्यते न जानाति सार्वज्ञयविशिष्टेश्वरज्ञाने सर्वज्ञत्वप्रसङ्गेनासर्वज्ञत्वविरोधान्न बुध्यते चेत् ईश्वरो न सिध्ये1 एव स्या-च. 2 विप्रलिप्सामूलत्वभावादिति भावः–र ख. 3 प्रणालिका भक्षित्वा-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy