________________
26
सव्याख्य सर्वार्थसिद्धि सहिततत्त्वमुक्ताकलापे
तत्त्वमुक्ताकलापः
नो चेत् पूर्वापरोक्तिस्ववचन कलहस्सर्ववेदान्तबाधः तत्सिद्धिर्हेतुभिश्चेत् प्रसजति
सर्वार्थसिद्धिः
[नायक
परम् ' 'आनन्दं ब्रह्मणो विद्वान्' इत्यादिपूर्वापरविरोधः स्ववचनविरोधश्च स्यात् । तदिदमाह - नो चेदिति । ब्रह्मप्रतिपादकभागश्च सर्वो निर्विषयः 'म्यादित्यत्राह-सर्वेति । उपलक्षणमेतत् वेदोपबृंहण शतबाघस्य । · वेदैश्च सर्वैरहमेव वद्य : ' ' वचसां वाच्यमुत्तमम् ' इत्यादिभिश्व ‘यतो वाचो निवर्तन्ते' ‘इत्यादेरान्यपर्यं ग्राह्यम् । माऽस्त्वत्र श्रुतिभि - वाच्यत्वादिसिद्धिः अनुमानतस्तु स्यादिति शङ्कते - तत्सिद्धिरिति । श्रुतिवदेव विरोधप्रसक्त्या परिहरति - प्रसजतीति । ब्रह्म अवाच्यवेद्यं वा एवत्वादिति हि प्रयोक्तव्यम् । तत्र ब्रह्मपदं साध्याधारं व्रते न वा ? आद्ये कथं तद्विरुद्ध साध्यधीः ? द्वितीये तु निरर्थकता आनन्ददायिनी
3
'ब्रह्म वेदेत्यस्य प्रपञ्चमिथ्यात्व वेदेत्यर्थस्यात् । तथा च न विरोधः । ब्रह्मैव भवति इतरशून्यो भवतीत्यर्थः । 'आनन्दं ब्रह्मणो विद्वान् ' इत्यत्रापि तथा ब्रह्मानन्दव्यतिरिक्तं मिथ्यात्वेन जानन्नित्यर्थः किं न स्यादित्राहब्रह्मप्रतिपादकभाग इति । तथा सति ब्रह्मणि प्रमाणाभावाद्वेदान्तानां मिथ्यात्वपरत्वात् स्वप्रकाशत्वस्य वेद्यत्वाभावरूपस्य किञ्चिद्वस्तुसाधकत्वाभावात् ब्रह्म शशशृङ्गप्राय स्यादिति माध्यमिकागमप्रसरः यादीत भावः । नन्वनुमानस्या शब्दात्मकत्वात् कथं श्रुतिवत्' इति स्वचनादिविरोध उच्यत इत्यत्राह - ब्रह्मावाच्यमिति । आद्य इति । साध्याधारस्य ब्रह्मपदवाच्यत्वात्तत्पदवेद्यत्वाच्च अयोग्यत्वेन पक्षपदं न साध्यपदेनान्वितं सद्बोधजनकमित्यर्थः । द्वितीये त्विति । " धर्मि1 स्यादित्याह - घ. 2 साध्यविधि. – घ, साध्यसिद्धिः - च. प्रमाणभावा- ग. 4 मध्यमागम - ग. 5 शब्दार्थक - ग. 6 धर्मिबोधक - ग.
-
4
3
ब्रह्मण.