SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सन्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप नायक A तत्त्वमुक्तकालापः तस्मिन्देहानपेक्षे श्रुतिभिर[धिगते)वसिते देहबाधान बाधो वेदेभ्यो नानुमानं सर्वार्थसिद्धिः कलेबरसापेक्षम्य कर्तुः कथमीश्वरत्वम् ? तत्राह-तस्मिन्निति । देहानपेक्ष इत्युपलक्षणम् । श्रूयते हि -" पश्यत्यचक्षुस्स शृणोत्यकर्णः, अपाणिपादो जवनो ग्रहीता" इति। यदि सर्वशरीरत्वस्य श्रुतिस्मृतिसिद्धत्वात् सर्वेषु कार्येषु शरीरसापेक्षत्वमिति, तथा सति न व्यापकानुपलब्ध्या बाघः । सर्वकार्यानुगुणतत्तद्रव्यशरीरकतया शास्त्रैरुपलब्धेः । अथ विगीतमकर्तृकं कर्मवश्याजन्यत्वादित्याद्यनुमानैरीश्वरस्य बाध इत्युच्येत ; तत्राह-वेदेभ्य इति । अयं भावः-आप्तशास्त्रस्यानु आनन्ददायिनी विपरीताङ्गीकारे निर्हेतुकैवोत्पत्तिरभ्युपगम्यतेति भावः । सापेक्षस्येति । परतन्त्रतया स्वातन्त्रयलक्षणेश्वरत्वस्य विरोधादिति भावः । ननु दृष्टविपरीताङ्गीकारे निर्हेतुकैवोत्पत्तिरभ्युपगम्यतेत्यत्राह---श्रूयते हीति । प्रमाणाधीनत्वाद्वयवस्थाया इति भावः। वस्तुतस्तु न व्यापकानुलब्धिरित्याह-यदीति । केचित्तु व्यापकानुपलब्धिरित्यनेन किं करचरणाद्यात्मकशरीरानुपलब्धिर्विवक्षिता ; किं वा शरीरमात्रानुपलब्धिरिति विकल्प्याचं दूषयति--देहायनपेक्ष इति । द्वितीयं दूषयतियदीतीत्याहुः। ननु ' उत्ताना वै देवगवा वहन्ति ' इत्यादीनामनुमानेन बाघो न स्यादित्यत्राह--अयं भाव इति । आप्तत्वमनन्य
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy