________________
सरः ३] अन्याप्रत्यक्षत्वादीश्वरः कथमङ्गीकार्य इति चार्वाकशङ्काया निरासः 19
तत्त्वमुक्ताकलाप: स्वीकृतः स्वेतरात्मा।
सर्वार्थसिद्धिः प्रसङ्गात् । लोकायतिकानां तु यद्यपि भूतपरिणतिरूपः परात्माऽपि प्रत्यक्षः, तथापि चैतन्यावीशष्टो न प्रत्यक्षेण गृह्यते । यद्यन्यतस्तु कुत'श्चित् तद्विशिष्टतया गृहीतः, एवमीश्वरोऽपि किं न गृह्येत ? बाधानहत्वात्। शरीरतया परात्मग्रहणमिति चेत् ; आत्मनः शरीरत्वे सिद्धे हि तथा ग्रहणम् , तदन्यत्वसिद्धौ तु परशरीरेऽपि तथैव स्यादिति । अस्तु तर्हि व्यापकानुलब्ध्या बाघः, कर्तुर्हि शरीरं व्यापकम् ; न चाङ्कुराद्युत्पत्तौ शरीरं दृश्यते। अतीन्द्रियं तत्र शरीरमस्त्विति चेन्न ; अङ्कुराधुत्पादकतया तादृशशरीरानभ्युपगमात् । तदभ्युपगमेऽपि करण
आनन्ददायिनी शरीरस्यैवात्मतया तस्य प्रत्यक्षप्रमाणगम्यत्वादिति शङ्कते-- लोकायतिकोत । परिहरति--चैतन्येति। ननु यावद्धर्मविशिष्टतया ग्रहणं न वक्तव्यं, किंचिद्धर्मविशिष्टतयाऽपि ग्रहणे धर्मिसिद्धे. रित्याशङ्कते-शरीरतयेति । किं शरीरत्वमेवात्मत्वं, यद्वा ज्ञानाश्रयस्वमिति विकल्प्याचं दूषयति-आत्मन इति । द्वितीयं दूषयति-- तदन्यत्व इति । परशरीरे ज्ञानस्य सिद्धिर्न स्यादनुपलम्भादिति भावः । नन्वस्त्वनुमानमिति शङ्कते--अस्तु तौति । अङ्कुरादि कर्तृजन्यं न भवति शरीराजन्यत्वादा काशवदित्यनुमानेनाङ्कुरादिस्थले कर्तुरभावेऽवगते नेश्वरसिद्धिरिति भावः । अङ्कुरादीति । दृष्ट
3 ज्ञानत्वसिद्धि-ग.
4 अनुमानं
_1 श्चिद्विशिष्ट-घ. तद्वदन्य-च. शकते-ग. काशादिवदि-ग.
2*