________________
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप
नायक
18
तत्त्वमुक्ताकलापः अप्रत्यक्षः परात्मा तदिह न घटते धातुरध्यक्षबाधो योग्यादृष्टेरभावान खलु न भवता
सर्वार्थसिद्धिः अप्रत्यक्ष इति । सर्वेषां स्वव्यतिरिक्तस्यात्मनः प्रत्यक्षत्वासिद्धेः ; ईश्वरेऽपि योग्यानुपलब्ध्यभावान्नात्र प्रत्यक्षबाध इत्यर्थः । इहदूर्वादिकार्योत्पत्तौ। कर्तुरदृष्टस्य कथं सिद्विरिति चार्वाक चोद्यं वारयति-न खल्विति । अयं भावः-न तावदर्घलोकायतिकैरद्वैतिभिरिवात्मभेदोऽनङ्गीकृतः । भिन्नाश्चात्मानः परस्परमप्रत्यक्षाः। एवमीश्वरोऽपि स्वप्रत्यक्षोऽन्याप्रत्यक्षतया निषेधुं न शक्य इति । अनुमानादात्मान्तरस्वीकार इति चेत् , आगमादीश्वरोऽपि स्वीकर्तव्यः ; प्रमाणत्वेन श्रद्धेयत्वाविशेषात्। परोक्षत्वेन न्यक्कारस्यानुमानेऽपि
आनन्ददायिनी ननु देहातिरिक्तात्मनोऽनङ्गीकारात् कथं तन्निदर्शनेन परमात्मनः प्रत्यक्षत्वाभावकथनमित्यत्राह--चार्वाकेति। नन्वात्मभेदाङ्गीकारमात्रात् नात्मनि बाघकाभावः, घटमेदवदप्रयोजकत्वादित्यत्राह-- अयं भाव इति । अर्धलोकायतिकाः मीमांसकाः जगद्रूप. शरीरातिरिक्तपरमात्मानङ्गीकारात् । स्वप्रत्यक्ष इति । यथा जीवानां स्वान्य प्रत्यक्षायोग्यतया योग्यानुपलब्धिराहित्यान्नाभावः, एवमीश्वरोऽपि योग्यानुपलब्धिराहित्यान्न निषेधे शक्य इति भावः । ननु बाधकामावमात्रं न साधकमतिप्रसङ्गात्। जीवे त्वनुमान साधकमस्तीति शङ्कतेअनमानादिति । ननु लोकायतिकं प्रति नेयं प्रतिबन्दी, तन्मते
___ 1 मात्रेणानात्मनि-ग. 2 'मीमासका.' इति कोशान्तरे न दृश्यते. सूत्वायो-ग.
प्रत्य