SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सरः ३] ब्रह्माणुत्वमहत्त्वबोधकयोः परस्परविरुद्धयोः श्रुत्योर्निर्वाहक्रमः 17 सर्वार्थसिद्धिः अणोरणीयान्महतो महीयानित्यनुश्रवः । विश्वव्यापित्वतात्पर्यान्न मिथो बाधमृच्छति ।। यदल्पपरिमाणेन पृथूनां प्रसनं श्रुतम् । अचिन्त्यमिदमित्येके चिन्तनश्रमभीरवः ॥ १ ॥ ___ इत्यागमिकेश्वरसिद्धिः. यद्यङ्कराद्यत्पत्तौ कश्चित् कर्ता, स कथं न दृश्येत ? अतो यूपादित्यैक्यमिव प्रत्यक्षबाधितं न श्रुतिः प्रतिपादयतीत्यत्राह आनन्ददायिनी विभुत्वरहितं द्रव्यं किंचिदणुत्वविशिष्टं किंचिन्महत्त्वविशिष्टमित्यर्थः । नन्विदं लक्षणमीश्वरेऽव्याप्तं, अणुत्वस्यापि श्रुत्याऽवगमादित्यत्राह-- अणोरणीयानित्यादि । अस्याः श्रुतेरणुत्वपरत्वाभावादिति भावः । नन्वीश्वरेऽणुत्वमहत्त्वे न विरुद्धे, तस्याचिन्त्यस्वभावत्वादिति शङ्कामनद्य परिहरति-यदिति । अल्पपरिमाणशरीरेणेश्वरेण ब्रह्माण्डादिग्रसनं कृष्णाद्यवतारादौ श्रुतमित्यर्थः । तत्राप्यधिकमेव शरीरं तदल्पपरिमाणतया दृश्यत इति न विरोध इति वक्ष्यत इत्यर्थः । पक्षान्तरमाह-- अचिन्त्यामिति । हेतुभिरपनोद्यं न भवतीत्यर्थः। विस्तरस्तु स्वावसरे भविष्यतीति भावः ॥१॥ इत्यागमिकेश्वरसिद्धिः. __ आक्षेपसङ्गतिरित्यभिप्रायेणाह-यद्यकुरोति । ईश्वरस्यापि स्वव्यतिरिक्तात्मत्वादप्रत्यक्षत्वमित्यर्थः। ननु तर्हि योग्यानुपलब्ध्यभावे सति नाहमीश्वर इति बुद्धेः प्रत्यक्षत्वोपपादन मयुक्तं स्यादिति चेन्न । अन्योन्याभावप्रत्यक्षेऽधिकरणप्रत्यक्षस्यैव प्रयोजकत्वादिति भावः । 1मव्यक्तं-ग. SARVARTHA VOL. IV. son
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy