SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 16 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्काकलापे [नायक सर्वार्थसिद्धिः यथाप्रमाणं संबन्धमात्रमेव तयोर्भवेत् ॥ आकाशव्यतिभेदादेरसंभाव्यस्य चोदना । आकाशादिकमिच्छद्भिरनिच्छद्भिश्व दुर्वचा ॥ न विभज्येत गच्छद्भिर्न विहन्ति गतिं च यत् । अस्पर्शत्वात्तथाभूतं विभु वाऽविभु वाऽस्ति नः ।। विभ्वणुप्रतिषेधेन मध्यमं च निषेधता । सर्वासत्त्वं च दुस्साधं सदसत्त्वविकल्पतः ॥ समस्तमूर्तसंयोगस्संभवेद्यस्य तद्विभु । तत्संभवोज्झितं द्रव्य महत्त्वाणुत्वचित्रितम् ॥ आनन्ददायिनी यथेति । स्पर्शवन्मूर्तयोरेवे परस्परप्रतिघातकत्वेनात्र परस्परप्रतिघातकत्वाभावादित्यर्थः । आकाशव्यतिभेदः आकाशेन प्रतिघातः । इच्छद्भिः बौद्धव्यतिरिक्तैः । अनिच्छद्भिः चार्वाकादिभिः । सिद्धावप्रतिघातकत्वेन सिद्धिः असिद्धावापादनासम्भवादिति भावः । तत्र युक्तिमाह-न विभज्यतेति । यत् गच्छद्भिर्न विभज्येत न भेद प्राप्नोति जला दिवत् ; नापि कुड्यादिवत् गतिरोधक तादृशं विभ्वण्वादिकमस्त्येवेत्यर्थः । उक्तरीत्या विभ्वण्वोः प्रतिषेधे सुतरां मध्यम प्रतिषिद्धमिति सर्वासत्त्वं माध्यमिको वदति । तम्य सिद्धयसिद्धिव्याघातेनासत्त्वं दुःसाधमित्यर्थः । सत्त्वं सिद्धत्वमसत्त्वमसिद्धत्वम् । ननु सर्वत्र वृत्तिमत्त्वं विभुत्वमिति वक्तव्यम् ; तथा चाधारदेशे वृत्त्यसम्भवात् कथ विभुत्वमित्यत्राह---समस्तति । सर्वमूर्तयागित्वं विभुत्वमित्यर्थः । तत्संभवोज्झितमित्यादि । 1 अत्र-ग. 2 कालादि-ग. विभ्वणुप्र-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy