________________
‘सरः ३]सहकार्यपेक्षत्वेऽपि भगवतस्वातन्त्रयाक्षतिः, उपादानत्वकर्तृत्वादयस्तद्धर्माश्च 15
सर्वार्थसिद्धिः गुणतरविपर्यासमन्योन्य सहकारिताम् ।
विवक्षातः कचित् प्राहुः निस्समत्वान्निमित्तताम् ॥ प्राप्यः परमभोग्यत्वान्निषेव्यः स्वामिभावतः । शक्तिकारुण्यभूम्ना च शरण्यस्सीदतां प्रभुः || बहिरन्तश्च तद्याप्तिस्तत्र यत्रोभयं भवेत् । विभोरणोश्व न बहिर्नान्तस्तस्मान्न सा तयोः || विभोर्न च्छिद्रणुना नाणूनां विभुना च तत् ।
आनन्ददायिनी
दिति । इच्छासन्तत्यनादित्वादिति भावः । नन्वेकस्यैव कथमुपादानत्वं कर्तृत्वं च गुणप्रधानभावादिविरोधादित्यत्राह – गुणेतरेति । गुणतरविपर्यासः एकस्यैव गुणप्रधानभावः परस्परोपकारकत्वं विवक्षितं किंचिदाकारभेदविवक्षयेत्यर्थः । निमित्ततामिति । सर्वनियन्तृत्वेन कर्तृतामित्यर्थः । किं विवक्षाप्रयासेन; कर्तृत्वमेव त्यज्यतामित्याशङ्कयान्यार्थं विवक्षा कर्तव्येत्याह — प्राप्य इति । परमानन्दलक्षणतया प्राप्यत्वं शेषित्वात् सेव्यः कैंकर्यप्रतिसम्बन्धीत्यर्थः । सीदतामकिंचनानां निरतिशयदयादिशालित्वाच्छरण्यत्वं तस्येत्यर्थः । प्रसङ्गाद्धर्मान्तराण्यप्याह - बहिरिति । यत्र पदार्थे बहिरन्तः प्रदेशरूपोभयं भवेदित्यर्थः । विभोरिति । विभोर्बहिः प्रदेशाभावान्न बहिर्व्याप्तिः, अणोरन्तरभावान्नान्तर्व्याप्तिरित्यर्थः । ननु विभोरप्यभावप्रदेशोऽस्ति । अणोरप्यन्तः प्रदेशो विद्यते । अणुस्थले विभोरभावेन वृत्त्यभावात् तस्मिन्वा तदयोगादित्यत आह — विभोरिति । तत्र हेतुमाह -
2 विभोर्विरोधेन - ग. 3 तस्मिन्वा सति तद - ग.
1
विभोर्भा-पा.
गुणः पर - ख.
1
2