________________
12
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
सर्वार्थसिद्धिः विहारः क्रीडा; सा चारतिपरिहारार्था लोके प्रसिद्धा। 1 जगतः सष्टारमधिकृत्य " स एकाकी न रमेत" इति श्रयते । अतः क्रीडायोगादरतियोगः, तदभावाद्वा तदभावः स्यात् । मैवम् ; क्रीडा हि प्रीतिविशेषप्रभवः स्वयंप्रियो व्यापारः। अन्यथा तल्लक्षणमव्यापक स्यात् । अतो नारतिप्रसङ्गः । अरतिश्रुतिश्च तदानीमेकाकित्वमनिष्टमतो ब्रह्मादिसृष्टावुदयुक्त' इत्यभिसन्धत्ते, न पुरुषान्तरवदप्रवृत्तिजन्य
आनन्ददायिनी अरतिर्दःखम् । तदभावाद्वेति । अरत्यभावे क्रीडापि न म्यादिति भावः । क्रीडा हीति ।
प्रीत्या प्रसूतव्यापारः क्रीडेत्याहुर्मनीषिणः । इत्युक्तत्वादिति भावः । अन्यथेति । अरतिपरिहारव्यापारत्वं चेल्लक्षणं राजकुमारादिक्रीडायां प्रीतिविशेषप्रभवायामव्यापकमित्यर्थः । नन्वरतिविशेषपरिहारार्थत्वं क्वचिदिष्यते, न वा ; नाद्यः। त्वदुक्तलक्षणस्याप्यव्याप्तेः । न द्वितीयः ; तथा सति पूर्वपक्षिलक्षणस्यासम्भव एवेत्यव्याप्तिकथनमसङ्गतामति चेत् ; अरतिविशेषपरिहारार्थस्यापि प्रीतिविशेषप्रभवत्वमस्त्येवातो न दोष इत्याहुः । ननु 'एकाकी न रमेत' इति श्रुतिबलादरतिरस्तीत्याशय तत्र किं रतिरिच्छेति तद्विरोधिद्वेष उच्यते ; उत दुखमेव ; नाद्य इत्याह–अरतिश्रुतिश्चेति । तथाच सृष्टयनुकूल त्वादिष्टापत्तिरिति भावः । द्वितीयं दूषयति-न पुनरिति । दुःख
.. 1 जगत्स्रष्टा-घ. चेन्न। अरति-ग. 3 श्रुत्यनुकूल-ग. 4 मूले ‘न पुरुषान्तरवदप्रवृत्ति' इत्यस्य स्थाने 'न पुनः पुरुषान्तरवदप्रवृत्ति इति पाठाभिप्रायेणेदमिति भाति.