________________
सरः ३] ब्रह्मणआप्ताखिलकामत्वोक्तिस्तदिच्छायांतदवाप्तिपरैव नतुकामान्तराभावपरा 13
AAAAAwa
v
uman
-
~
तत्त्वमुक्ताकलापः 1 स्वेच्छायां सर्वसिद्धिं वदति भगवतोऽवाप्तकामत्ववादः ॥ १ ॥
सर्वार्थसिद्धिः दुःखभयात् प्रावर्ततेति ; अशास्त्रवश्यस्य दुःखानहत्वात् । तथाऽपि
क्रीडार्थ सृजतो विश्वं विहन्येत कृतार्थता । इत्यत्राह-स्वेच्छायामिति । अवाप्तसमस्तकामवादो हि न काम्यनिवृत्तिपरः, अवाचकत्वात् , सत्यकामत्वश्रुतिविरोधाच्च । नापि कामनानिषेधार्थः ; “ सोऽकामयत ” “ सत्यसंकल्पः" इत्यादिबाधात् । अतो यथाकामं सर्वसिद्धिमभिसन्धत्त इति । सहकारिभरारम्भे न स्वातन्त्र्यं विहन्यते ।
आनन्ददायिनी कारणाभावादिति भावः। ननु यदि साध्यप्रयोजनं तवाप्तसमस्तकामत्ववचनविरोधं भट्टकारिकां पठन् शङ्कते-तथाऽपीति । कृतार्थता अवाप्तसमस्तकामता । अवाप्तसमस्तकामवचनं किं शक्त्यैव कामान्तरं निराकरोति; उत तात्पर्यगत्यति विकल्पयाचं दूषयति-अवाचकत्वादिति। द्वितीयं दूषयति-नापीति । अविरुद्धार्थे तात्पर्य कल्प्यमिति भावः । तर्हि तस्य कोऽर्थ इत्यत्राह-अत इति । अवाप्तशब्दोऽवाप्तप्रायपर इति भावः । ननु चतनकर्मानुरूपं सृजतीत्युक्तम् ; तथा सति कर्मादिसापेक्षत्वे स्वातन्त्रयं न स्यादिति शङ्कामनूद्य निराचष्टे-सहकारिभिरिति । अन्ये तु यदीश्वरो जगत्कर्ताऽभ्युपगम्यते तस्य स्वातन्त्रयमपि वाच्यम् । तच्च प्रकृत्यादिसापेक्षस्य विरुद्धमतो न सोऽस्ति ;
1 स्वेच्छातस्सर्व-पा.