________________
सरः ३] भगवतस्सर्वशक्तस्य क्रोधोऽपि तत्प्रीत्याध्यायक एव न तहःखाधायकः 11
तत्त्वमुक्ताकलापः रोषोऽपि प्रीतये स्यात्सुनिरसविषयस्तस्य निस्सीमशक्तेः
सर्वार्थसिद्धिः भिक्षुपादप्रसारणन्यायेन निरीश्वरवादावतारात् । अतः क्रोधावश्यं भावादीश्वरस्यापि दुःखावश्यंभाव इत्यत्राह-रोषोऽपीति । क्रोधरोषादिशब्दार्थो हि परपीडेच्छामात्रम् । स तावन्न स्वरूपतो दुःखम् ; दुःखहेतुत्वमप्यस्याशक्यविषये, तथा दृष्टेः । स्मयते हि
द्वाविमौ कण्टको तीक्ष्णौ शरीरपरिशोषणौ।।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ।। इति । न सर्वशक्तेरीश्वरस्य चिकीर्षितमशक्यं किश्चिदस्ति । अतोऽस्य न दुःखाय क्रोधः, प्रत्युत निग्रहविहारेण प्रीतये स्यादिति । नन्विह
आनन्ददायिनी यद्यप्येकसमासपदोपात्तत्वेऽपि । पिकद्विरोफावलिगीतशोभम् ' इत्यादौ * कस्यचिल्लक्षणायामपि नान्यस्य तथात्वं ; तथाऽपि लोके पुमिच्छापरतन्त्रत्वाद्वैदिके न्यायाधीनत्वान्न लोकसाम्यमिति भावः । भिक्षुपादेति । वेदान्तभागस्यैव भाक्तत्वप्रसङ्गादिति भावः । किं क्रोधस्य दुःखाविनाभावः तादाम्येन तदुत्पत्त्या वा; नाद्य इत्याह-स तावदिति । सः क्रोधशब्दार्थः। न द्वितीय इत्याह--दुःखहेतुत्वमपीति । न क्रोधमात्रं दुःखहेतुरिति भावः । स्मृतिमपि स्वोक्तार्थे प्रमाणयतिस्मयते हीति । यथा कामनामात्रस्य न दुःखकरत्वं तथा क्रोधमात्रस्यापीति भावः। शक्यविषयक्रोधस्य प्रीतिहेतुत्वमेवेत्याह-प्रत्युतेति ।
1 भावादुःखा-घ. 2 मस्या-घ. यश्चानीशः प्रकुप्यति-घ. 4 क्वचिङ-ग. न्याधी-ग.