SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाये नायक सर्वार्थसिद्धिः 1 यामः, किंतु प्रमाणदृष्टयैव । अतो निग्रहांशेऽपि निरङ्कुशं कर्तृत्वम् । अथ स्यात्--क्रोधो हि निग्रहहेतुः ; स च स्वाश्रयदुःखाविनाभूतः, "अरोषणो ह्यसौ देवः" इति प्रसिद्धस्य च कथं क्रोध इति चेन्न ; "एतौ द्वौ विबुधश्रेष्ठौ" इत्यादिषु कण्ठोक्तेः । भाक्तोऽयं क्रोधशब्द इति चेत्तन्न ; प्रसादशब्दस्यापि तथात्वप्रसङ्गात् । अस्त्वेवमिति चेन्न; आनन्ददायिनी जननशक्तीनामित्यर्थः । ब्रह्मणस्तास्तु' इति दुःखजननसामर्थ्यमप्यपारहार्यमित्यर्थः । ननु दुखनिवर्तनात् कारुण्यामित्युक्तं तदयुक्तम् ; यदि कर्मानुरोधेन दुःखं जनयेत् तदनुभवेनैव नाश्यं, अन्यथा कर्मफलत्वाभावप्रसङ्गात् । अथ भाविदुःखानुत्पादो निवर्तनशब्दार्थः ; तस्य कर्माधीनतया 'तत्सत्त्वे तदुत्पादावश्यंभावात् । अत एव दशवर्षाद्यनुभाव्यदुःखस्य मासमात्रानुभवेन निवर्तनमित्यपि न संभवति । तावत्कालिकानुभवस्य कर्मफलत्वेन कर्मानतिक्रमतः तदयोगादिति चेत् , अत्रोक्तमाचार्यः-- अनेकजन्मानुभाव्यकर्मणः क्षणकालादिसाध्यप्रायश्चित्तादिना निवर्तनमेव कारुण्यम् । नचैतदपि कर्माधीनमिति वाच्यम् । निवर्त्यसमानत्वाभावात् । नचैव क्षणसाध्यदुष्कर्मणामप्यनेकजन्मानुभाव्यदुःखजनकत्वापादनान्नैपुण्यमपि स्यादिति शङ्कयम् । तच्छमनोपायस्यापि सुकरस्य प्रदानादिति न दोष इति । परिहारमाशङ्कते --अरोषण इति । निग्रह हेतुक्रोधाभावान्न सर्वकर्तृत्वमिति भावः। परिहार खण्डयति--एतौ द्वाविति । अरोषणवचनमन्यपरमिति भावः । वैपरीत्यं शकते--भाक्तोऽयमिति । प्रसादशब्दस्यापीति । 1 येम-घ 2 श तत्कर्तृ-घ. चेन्न-घ. 4 तत्सिद्दे तद्-ग. 5 तावस्कारकर्मानु-ग. 6 प्रदर्शना-ग. हेतुकोपाभावा-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy