________________
सरः ३] सर्वसमस्येश्वरस्य स्वान्योभयार्थतया यथाजीवकर्म जगत्स्रष्टत्वम्
9
तत्त्वमुक्ताकलापः समतया जीवकर्मानुरूपम् ।
सर्वार्थसिद्धिः दुःखसृष्टया कारुण्यं च भज्यतेत्यत्राह-समतयेति । साम्यकारुण्यवत् यथाकर्म फलदायित्वमपि 1 श्रुतिबलादङ्गीकार्यम् । अतस्तदनुरोधेन गुणान्तरं व्यवस्थाप्यमिति भावः । दुःखनिवर्तनांशे कारुण्यसिद्धिः । ननु स्वसृष्टदुःखनिवर्तनेन कारुण्यलाभाद्वरं दुःखानुत्पादनमेव । अतः
सुखैकतानं जनयेज्जगत् करुणया सृजन् ।। इति चेत् ; किमयमीश्वरं प्रत्युपदेशः? अन्यान् प्रति वा ! नाद्यः, तस्य परोपदेशाधीनप्रवृत्तित्वाभावात् । न द्वितीयः, ततत्प्रमाणसिद्धवस्तुस्वभावानामपर्यनुयोज्यत्वात् । स्मयते च--
शक्तयस्सर्वभावानामचिन्त्यज्ञानगोचराः। यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ।।
भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥ इति । ननु दयावैकल्यपरिहारायानुग्रहांश एव भगवतः कर्तृत्वमङ्गीक्रियताम् ; स्यादेतत् . एवं यदि वयमेव स्वेच्छया वस्तु व्यवस्थाप
आनन्ददायिनी कर्तृत्वाव्यापकत्वान्न तयापकमिति भावः । तदनुरोधेन-यथाकर्मफलदायित्वानुरोधेन कारुण्यसमत्वादिकं व्यवस्थाप्यमित्यर्थः । ननु यथाकर्म फलदाने किं करुणयेत्यत्राह-दुःखेति । प्रयोजननिरपेक्षदुःखनिरा'चिकार्षा कारुण्यमिति भावः । नन्विति । प्रक्षालनाद्धीति न्यायादिति भावः । द्वितीय आह-तत्तदिति । प्रमाणसिद्धतत्तत्स्वभावानां तत्तत्कार्य
1 श्रुतस्वाद-घ. 2 अतस्तदविरोधेन-पा. 3 चिकीर्षैव का-ग.