________________
सचिन्तामणे
स्वादिप्रमाजनकत्वाभावो वाऽसाधकत्वं । न च प्रति योग्यप्रसिद्धिः, तत्कालीनैतत्पशौयत्व-तत्तत्काल-तत्तपक्षविषयत्वयायधिकरणयोरेव प्रतियोगितावच्छेदकत्वादिति। तन्न। सङ्घतोः सत्यतिपक्षत्वाज्ञानदशायामपि तादृशामायामकरणभावेनासाधकतापतेः । मापि तृतीयलिङ्गयरामर्शस्याप्रमात्वं तत्, विरुद्धादौ परामर्शाभावात् सद्धेतौ सत्प्रतिपक्षेऽसाधारणे च तत्प्रमात्वाच्च । नाप्यनुमितिहेतुभूताभावप्रतियोगिज्ञानविषयत्वं तत् सहेतावपि कदाचित् व्यभिचारित्व-सत्यतिपक्षत्व-ज्ञानस्यानुमितिप्रतिबन्धकत्वात्। अथानुमितिप्रतिबन्धकप्रमाविषयत्वमसाधकत्वं सडेतो व्यभिचारादिभ्रमः प्रतिबन्धकः अनुमितिप्रतिबन्धकत्वञ्च व्यभिचारादिप्रमायास्तृतीयलिङ्गपरामर्शविघटनद्वारा तुल्यबलताविषयतया वेति चेत् । न। सत्प्रतिपक्षयाविरुद्धयोास्तवतुल्यबलत्वाभावेन तमस्य प्रतिबन्धकत्वात् । न च तुल्यबलतया जायमानेन बोधितसाध्यविपर्ययकत्वज्ञान प्रतिबन्धकं तच्च प्रमैवेति वायं। तुल्यबलताज्ञानमेव हि प्रतिबन्धकं न तु जायस्यैव साधनादित्यर्थः। एवमयेऽपि 'तुल्यबलतेति पत्र वस्तुगत्या धत्तुष्यबसमग्टहीतविशेषवलं तद्विषयतया उभयविरुद्धबलविषयतया