________________
बाधसिद्धान्तः!
११
साध्यप्रागभाव-ध्वंसवदृत्तित्वेन व्यभिचारितया पृथिवौत्वादिनां गंन्धादेः द्रव्यत्वादिना गुणस्वानुमानभङ्गप्रसङ्गात्, किन्तु साध्यात्यन्ताभाववद्गामित्वम् एवञ्च स्वप्रागभाव-ध्वंसावच्छिन्नतदाश्रये तत्प्रतियोगिसाधने पक्षे व्यभिचारोनेति बाधादूषणम्। अथासामानाधिकरण्यं, 'अनुमानभङ्गप्रसङ्गादिति अनुमाने व्यभिचार्यहेतुकत्वभङ्गप्रसङ्गादित्यर्थः, तथाच गन्धवान् पृथिवौत्वात् गुणवान्द्रव्यत्वादित्यादावतिव्याप्तिप्रसङ्गादिति फलितं। ‘माध्यात्यन्ताभावेति माध्यतावच्छेदकसम्बन्धावच्छिन्न-माध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाववद्वामित्वमित्यर्थः, एतादृशाभावविशेषलाभायैवात्यन्ताभावपदं अन्यथा अत्यन्ताभावपदोपादानेऽपि वैशिष्ट्य-व्यासज्यवृत्तिधर्मावच्छिनप्रतियोगिताकाभावमादायैव गन्धवान् पृथिवौत्वादित्यादावतिव्याप्तितादवस्थ्यात्। 'स्वप्रागभावेति स्वप्रागभाव स्वध्वंसकालविशिष्टेत्यर्थः, 'तदाश्रय इति, ‘पक्ष इत्यग्रेतनमत्र सम्बध्यते, तन्मात्रवृत्तिना हेतुनेति शेषः, 'तत्प्रतियोगीति कर्मधारयः तद्रूपप्रतियोगिसाधनइत्यर्थः, 'व्यभिचारो नेतिः ध्वंस-प्रागभावाधिकरणे देशे सामान्यात्यन्ताभावाभावेन यथोक्रव्यभिचारस्य तवासम्भवादिति भावः । 'बायो दूषणमिति प्रागभावादिरूपमाध्याभावत्यक्षात्मको बाधः स एव दोष इत्यर्थः, तथाचैतगन्धप्रागभावकालौनेतगन्धध्वंसकालोनो वायं 'घट एतइन्धवान् एतद्दटवादित्यादावेव वाधस्य व्यभिचारासदौर्णीदाहरणमिति भावः। प्रागभाव-ध्वंमकास्त्रस्य पक्षतावच्छेदकत्वाभिधान