________________
वृत्त्वचिन्तामणी
धूम-गोत्वादिकं साधयेत् यदि बाधा न दोष इति वयम् । -साध्याभाववन्माचसहचारो न व्यभिचारः
तदभावनिश्चयत्वेन(१) पृथक्प्रतिबन्धकलमावश्यकं तस्य हेतौ पक्षतावच्छेदकावच्छिन्नत्तित्वविषयकत्वेऽपि व्यभिचारज्ञानत्वाभावात् अनवच्छिन्नाधिकरणतासम्बन्धेन साध्याभाववत्त्वस्य व्यभिचारघटकत्वात् बाधज्ञानस्य तु केवलविशेषणताविशेषसम्बन्धेन माध्याभावावगाहित्वेऽपि श्रव्याप्यत्तित्वग्रहविरहदशायां प्रतिबन्धकत्वात्। न चैवं केवलविशेषणताविशेषसम्बन्धेन माध्याभाववतः पक्षस्थापि बाधतया अन्यायवृत्तिमाध्यक-व्याप्य-पक्षधर्महेतोरपि बाधितत्वापत्तिरिति वायं। हेत्वाभासविभाजकतावच्छेदकबाधितत्वस्य तत्रेष्टत्वात् बाधितव्यवहारनियामके चानवच्छिन्नाधिकरणतासम्बन्धेन साध्याभाववत्त्वस्य घटकत्वात् “बाधितोऽयमपक्षधर्मा हेतुरनैकान्तिको वा” इति प्रवादस्य व्याप्यवृत्तिसाध्यकबाधररत्वात् अन्यथा यादृशविशिष्टविषयित्वमित्यादिप्रागुन हेत्वाभासमामान्यलक्षणस्य केवलविशेषणताविशेषसम्बन्धेन कपिसंयोगाद्यभाववति वृक्षादावतिव्याप्यापत्तेः तचाप्रामाण्यज्ञानामास्कन्दितत्ववदव्याप्यत्तित्वग्रहानास्कन्दितत्वस्यापि निश्चयविशेषणत्यावश्यकत्वादिति तचैव स्फुटमिति प्राहुः ।
ज्ञानामाङ्कयं व्यवस्थाप्य विषयामा कर्य व्यवस्थापयति, 'मायाभाववन्माचेति, सहचारः' वृत्तित्वं, 'साध्याभावमात्रेति पाठे 'सहचारः'
(९) साध्याभावनिश्चयत्वेनेति ख०, ग ।