________________
तत्त्वचिन्तामणौ
प्रतियोगिसाधने न सिद्धसाधनं किन्तु बाघ एव, अन्यथा भावात्यन्ताभावयेारप्यव्याप्यवत्तित्वभङ्गः एकवृत्तित्वात् श्रवच्छेदकभेदेन वृत्तिरिहापि तुल्या तत्र
६७
मत्तानिश्चयस्य तादृशप्रतियोग्यनुमितावप्रतिबन्धकत्वादिति भावः । एतच्च देशः कालो वा यत्र पचतावच्छेदकस्तत्र पचतावच्छेदका - वच्छिन्नपचवृत्तित्वं साध्ये प्रकारीभूय भासते श्रवच्छिन्नत्वञ्च स्वरूपसम्बन्धविशेष इति जरत्तरमतानुसारेणाभिहितं । 'किन्तु बाध - एवेति किन्तु प्रागभावादिरूपसाध्याभाववत्त्वेन पचज्ञानमेवेत्यर्थः, तादृशानुमितिप्रतिबन्धक दूति शेषः । तथाच प्रागभावादिरूप - ध्याभाववत्पचोsपि बाध दूति भावः ।
ननु साध्याधिकरणदेशेऽपि साध्यप्रागभावादिसत्त्वे प्रागभावादेरव्याप्यवृत्तित्वभङ्गप्रसङ्गः प्रतियोग्यधिकरणदेशावृत्तित्वस्याव्याप्यवृत्तित्वरूपत्वात् किन्तु प्रतियोग्युत्पत्तिप्राक्काला दिवृत्तिरेव प्रागभावादि: श्रतएव प्रागभाव इति व्यावहार दूत्यत श्राह 'श्रन्यथेति प्रतियोग्यधिकरणदेशावृत्तित्वस्याव्याप्यवृत्तित्वरूपत्वे इत्यर्थः, 'भावात्यन्ताभावयोरिति पाठः, भावस्य संयोगादेस्तदत्यन्ताभावस्य चेत्यर्थः, 'अन्योन्यात्यन्ताभावयोरिति पाठस्तु प्रामादिकः, 'एकवृत्तित्वात्' प्रतियोगिना सममेकदेशवृत्तित्वात् । इदमुपलचणं समवायादिसम्बन्धा'वच्छिन्नगोत्वाद्यभावस्याव्याप्यवृत्तित्वप्रसङ्ग इत्यपि बोध्यं तस्मात्प्रतियोग्यनवच्छेदकावच्छेदेन प्रतियोग्यधिकरणवृत्तित्वमेवाव्याप्यवृत्तित्वं तचे हाप्यस्तीत्यभिप्रेत्याह, 'श्रवच्छेदकभेदेनेति 'तत्र' संयोगादि