________________
बाधपूर्वपक्ष तदनानेऽसिद्धिः, संशययोग्यत्वाभावेन ,पक्षत्वाभावा
कसे मानाभावः,। एतच्चानुमिति प्रत्येव माध्याभाववहृत्तित्वरूपयभिचारपान प्रकिबन्धकं न तु तत्कारणभूतव्यापकमामानाधिकरण्यरूपव्याप्तिज्ञानं प्रति प्राचीननये तादृशव्याप्तिज्ञानस्यैवानुमितिहेतुत्वादित्यभिप्रेत्य। ननु पक्षतावच्छेदकावच्छिन्ने साध्याभाववत्त्वमेव तत्र विषयो न तु हेतौ पक्षतावच्छेदकावच्छिन्नवृत्तित्वमपौत्यतपाह, 'तदज्ञान इति हेतौ पचतावच्छेदकावच्छिन्नवृत्तित्वाज्ञानइत्यर्थः, 'असिद्धिः' परामर्शविरहः, पक्षधम्मोहेतः माध्यव्याप्य इति लिङ्गविशेष्यकपरामर्शस्यानुमितिजनकस्य प्रथमं हेतौ पक्षवृत्तित्वग्रहं विनाऽनुपपत्तेः। न च बाधग्रहोत्तरं हेतौ पक्षवृत्तित्वग्रहः ततस्तुतौयक्षणे परामर्शी न तु बाधग्रह एव हेतौ माध्याभाववत्पत्तित्वज्ञानमिति वाच्यं । तथापि परामर्शोत्पत्तिक्षण एव बाधग्रहनामात् तस्थानुमितिप्रतिबन्धकत्वे मानाभावात्। न च हतौ पक्षवृत्तित्वज्ञानानन्तरं बाधग्रहस्ततः परामर्श इति 'वाच्य। तथा मति बाधग्रहेऽपि हेतौ पक्षवृत्तित्वभाने बाधकाभावात् व्यभिचारज्ञानेन अन्यथासिद्धे'स्तादवस्यात् इत्यभिमानः।.स चायुक्तः, माध्यव्याप्यहेतुमान्पक्ष इति पक्षविशेष्यकपरामर्शस्यानुमितिजनकतया यत्र हेतौ पक्षवृत्तित्वाविषयकबाधनिश्चयोत्तरं तादृशपरामर्श: तचैव बाधज्ञानस्य पृथक्प्रतिबन्धकतावश्यकत्वात् यत्र हेतौ पक्षवृत्तित्वग्रहोत्तरं प्राब्द-स्मृत्याचात्मकं हेतौ पक्षवृत्तित्वाविषयकं बाधज्ञानं ततः पक्षवृत्तितः माध्यव्याप्यति लिङ्गविशेष्यकः परामर्शः, यत्र वोच्छङ्खलपत्तित्व