________________
६.
सत्वचिन्तामणे
प्रमात्वेन ज्ञाता न खरूपसतो हेत्वाभासत्वात् । प्रमात्वज्ञानं विना अधिकबलत्वाभावेनादोषत्वात् अप्रमायामपि प्रमात्वज्ञानेऽनुमितिप्रतिबन्धाच । अथ साध्याभावति पक्षे हेतोः सत्वज्ञाने व्यभिचारः,
योगिसाध्ययोः परियतः । 'प्रमात्वेन ज्ञातेति, अनुमितिप्रतिबन्धिकेति भेषः, 'हेत्वाभासत्वादिति हेत्वाभासत्वानुरोधादित्यर्थः । एतदेव विवणेति, 'प्रमात्वज्ञानं विनेति प्रमात्वप्रकारकतज्ज्ञानस्यानुमितिप्रतिबन्धकत्वेन विनेत्यर्थः, 'अधिकबलवाभावेनेति ज्ञाननिष्ठनविषयित्वस्थानुमितिप्रतिबन्धकतावच्छेदकत्वाभावेनेत्यर्थः, 'प्रदोषमात्' हेतुदोषत्वासम्भवात् । ननु हेत्वाभासत्वानुपपत्तिर्न प्रतिबन्धकतायां मानमित्यखरमादाह, 'अप्रमायामपौति, ददमुपलक्षणं सत्यामपि प्रमायां तत्र प्रमावनिश्चयं विना अनुमितिप्रतिबन्धानभ्युपगमाञ्चेत्यपि बोभ्य। निरुतप्रमावग्रहे पक्षे साध्याभाववत्त्वग्रहोऽप्यावश्यक इत्यभिप्रायेण 'प्रमितमाथाभाववत्पक्षो बाध इति द्वितीयपक्षणभिप्रायेण वा शङ्कते, 'अथेति, साध्याभाववनि पक्ष- । इति निरुकप्रथमबाधज्ञाने निरुतद्धितीयबाधज्ञाने वा पक्षतावछेदकावच्छिन्ने साध्याभाववत्त्वस्य हेतौ च पक्षतावच्छेदकावच्छिन्नवृत्तित्वस्य ज्ञान इत्यर्थः, 'यभिचारः' व्यभिचारज्ञानं, हेतौ यद्भूर्मावचित्रवृत्तित्वं विषयौक्रियते तद्धावच्छिन्ने माध्याभाववत्त्वविषयकस्यापि समूहालम्बनज्ञानस्य व्यभिचारज्ञानत्वादित्यभिमानः, तथाच तत एनमित्यनुत्पादसम्भवादनुमितिं प्रति पृथग्वाधवानस्य प्रति