________________
तत्त्वचिन्तामणै.
मुद्रावनं विनाप्यनुमितिप्रतिबन्धात् अनुभवसिद्धे हि लक्षणं न तुलक्षणानुरोधेनानुभवकल्पना, परामशविषयाभावत्वेनानुगतेन चयाणमसिद्धत्वेन संग्रहो महर्षिणा कृत इति न विभागविरोधी हेत्वाभासाधिक्यं वा।
केचित्तु तद्रूपेण ज्ञानस्यानुमितिप्रतिबन्धकत्वाभावे हेतुमाह, 'तस्येति, तेन रूपेण ज्ञानमुद्भावनञ्च विनाप्यनुमितिप्रतिबन्धात्तेन . रूपेण ज्ञानमनुमित्यप्रतिबन्धकमित्याहुः। तदमत् । तथा मति व्यभिचारादिज्ञानं विनाप्यनुमितिप्रतिबन्धात् व्यभिचारादिज्ञानस्याप्यप्रतिबन्धकत्वापत्तेरिति ध्येयं । मनु परामर्शविषयप्रतियोगिकाभावत्वस्य महर्षिप्रणीतासिद्धिलक्षणतया तद्रूपेण ज्ञानादप्यनुमितिप्रतिबन्धो भवतीत्यनुभवः कल्यत इत्यत आह, 'अनुभवसिद्धे हौति शक्षणप्रकारकज्ञानादनुमितिप्रतिबन्धेऽनुभवसिद्धे होत्यर्थः, 'लक्षणं लक्षणस्यानुमितिप्रतिबन्धकतावच्छेदकत्वं । ननु स्याणां प्रत्येकमेव दोषत्वे त्रितयसाधारणैकरूपाभावेन विभागस्य वा न्यूनत्वं चयाणां मध्ये कयोचिद्वयो:(९) हेत्वाभासव्यतिरिक्रत्वं वा स्थादित्यत शाह, 'परामर्शविषयेति परामर्शविषयाभावत्वरूपेणानुगतेनामिद्धित्वेन जयाणं सङ्ग्रह इति योजना, 'विरोधः' न्यूनत्वं, ‘हेत्वाभामाधिक्यं वेति चयाणां मध्ये कयोश्चिद्वयोहेत्वाभासव्यतिरिकत्वं वेत्यर्थः । ननु परामर्शविषयाभावत्वं परामर्शविषयत्वावच्छिन्नप्रतियोगिताकाभावत्वं (१) कयोचित्तयोरिति ग०।