SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ [ १८ 1 . अथासिद्धिसिद्धान्तः। उच्यते अश्रियासिद्धिः स्वरूपासिद्धिः व्याप्यत्वासिद्धिश्च प्रत्येकमेव दोषः प्रत्येकस्यं ज्ञानाद्भावनाखानुमितिप्रतिबन्धात् न तु विशिष्टाभावः परामर्शविषयाभावो वा व्यर्थविशेषणत्वात् तस्य ज्ञान प्रथामिद्धिसिद्धान्तरहस्यं । 'ज्ञानादिति प्रत्यक्षादितो ज्ञानादित्यर्थः, तेनोभावनादिति मङ्गछते, एवमग्रेऽपि, 'विशिष्टाभाव इति व्याप्तिविशिष्टपक्षधर्मत्वाभावइत्यर्थः, एतच्च माध्यव्याप्यहेतमान्पक्षः इति पक्षविशेष्यकपरामर्थस्यैव हेतुतावादिना नव्यानां नयेन, माध्यव्याप्यत्वे मति पक्षवृत्तित्ववान् हेतुरिति परामर्शस्यापि हेतुत्वनये तु विशिष्टाभाववद्धेतरपि दोष इत्युक्तमधस्तात् । 'परामर्थविषयाभावो वेति परामर्थविषयप्रतियोगिकाभाववरूपेण व्यायादिप्रत्येकाभावो वेत्यर्थः, दोषइत्यनुषव्यते, व्यर्थविशेषणत्वात्' विभिष्टाभावत्वपरामर्शविषयप्रतियोगिकाभावत्वरूपस्य विशेषणस्य दूषकतायामप्रयोजकत्वात्, तेन रूपेण ज्ञानस्थाप्रतिबन्धकत्वादिति यावत् । नन्वेवं तद्र्येण ज्ञानादिसत्त्वेऽप्यनुमितिः थादित्यत पाह, 'तस्येति, प्रकारित्वं षष्ट्यर्थः, नद्रपेण ज्ञानमुद्भावनच्च 'अनुमितिप्रतिबन्धात् विनापौति योजना, यत्र मानुमितिप्रतिबन्धस्तत्रापि तत्प्रकारकज्ञानमुद्भावनच तिष्ठतीत्यर्थः, तथाच तद्रूपेण ज्ञानादिसत्त्वेऽनुमिताविष्टापत्तिरिति भावः ।।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy