________________
असिद्धिपूर्वपक्षः।
११ दशाविशेषइष्टत्वात् सेयं स्वरूपसती दूषिका कारणाभावत्वात्। न च व्याप्तादिप्रत्येकनिश्चयाभावश्व दूषकआवश्यकत्वादिति वाच्यं । विशिष्टनिश्चयस्य हेतुत्वे तदभावस्य कार्यानुत्पादकत्वादिति। मैवम् । एवं सव्यभिचारादेरप्यचैवान्तर्भावप्रसङ्गात् असिद्धेः स्वरूप
पर्वतो वद्धिमान् आकाशादित्याद्यसिद्धहेतोरपि, स्वीयभ्रमात्मकतदुभयनिश्चयदशायामिति शेषः, 'हेतुत्वं' मद्धेतुत्वं । न च भ्रमात्मकतदुभयनिश्चयदशायामपि असाधारण्य-विरोधान्यतरस्य हेत्वाभासत्वप्रयोजकस्यावश्यं सत्त्वेन मद्धेतुत्वासम्भव इति वाच्यं। पक्षवृत्तित्वे मति माध्यव्यापकोभूताभावप्रतियोगित्वरूपस्यामाधारण्यस्य वृत्तिमत्त्वे मति माध्यवदवृत्तित्वरूपस्य पूर्वाकविरोधस्य च तचासत्त्वादिति भावः ।
केचित्तु 'हेतुत्वमित्यस्य असिद्धिशून्यहेतुत्वमित्यर्थः इत्याहुः । 'मेयमिति, पूर्वोक्तश्च न हेत्वाभामलक्षणमिति भावः । 'न चेति, न भयप्रकारकनिश्चयाभाव इति भावः । 'आवश्यकलात्' कारणभावत्वेन तस्य दोषताया आवश्यकत्वात्। 'विशिष्टेति तदुभयप्रकारकनिश्चयस्येत्यर्थः, 'तदभावस्य' तदभावस्थापि, ‘कार्यानुत्पादकत्वात्' इति कार्यानुत्पत्तिप्रयोजकत्वादित्यर्थः। 'अत्रैवेति अमिद्धावेवेत्यर्थः, व्याप्ति-पक्षधर्मतानिश्चयाभावेनैवानुमित्यभावसम्भचादिति भावः। ननु प्रतिबन्धकौभृता सिद्धिज्ञानोपजीव्यतया व्यभि