________________
तत्वचिन्तामो
न्यतस्त्वञ्च तदन्यान्यत्वं तेनोभयविरहेपि नाव्याप्तिरिति निरस्तं । व्यर्थविशेशणत्वादेव । स्यादेतत् व्याप्ति-पक्षधर्मताभ्यां निश्चयः सिद्धिः तदभावोऽसिद्धिः, अतरवाव्यामेऽपक्षधर्मे च तदारोपरूपा सिद्धिरित्यनुमितिः न तु व्याप्त-पक्षधर्मादपि तदनिश्चये । न चैवं हेतोरप्याभासत्वं तदाभासस्यापि हेतुत्वं स्यात्,
मात्रवत्वं तथाच प्रमितिद्वयाभावस्थतेऽव्याप्तिरित्यत आह, 'अन्यतरत्वमिति, 'एतेनेति विवृणोति, 'यर्थविशेषणवादेवेति पूर्ववत् । 'व्याप्तौति स्खौयव्याप्ति-पक्षधर्मतोभयप्रकारकनिश्चय इत्यर्थः, 'तदभावः' विषयतासम्बन्धेन प्रकृतहेतौ तदभावः, 'याप्यादिभ्रमादनुमितिर्न स्यादिति पूर्वातबाधकमुद्धरति, 'अतएवेति यत एव विषयतासामान्येन भ्रम-प्रमासाधारणखीयतदुभयप्रकारकनिश्चयसामान्याभावोऽसिद्धिर्न तु भ्रमानिरूपितविषयतासम्बन्धेन(१) स्व-परमाधारणतादृशनिश्चयाभावोऽत एवेत्यर्थः, 'तदा' व्याप्यादिभ्रमदशायां, 'मिद्धिः' व्याप्ति-पक्षधर्मतोभयप्रकारकनिश्चयः, 'तदनिश्चय इति. खोयतदुभयप्रकारकनिश्चयाभाव इत्यर्थः, पुरुषान्तरौयतदुभयनिवयादनुमितिरिति शेषः। 'न चैवमिति, ‘एवं' स्वौयतदुभयनिश्चयाभावस्यासिद्धित्वे, ‘हेतोरपि' पर्वतो वहिमान् धमादित्यादिसङ्केतोरपि, खौयतदुभयनिश्चयाभावदशायामिति शेषः, 'तदाभासस्थापि'
(१) प्रमानिरूपितविषयतासम्बन्धेनेति ख• ।