________________
- पतिविपूर्णपक्ष। वस्तुतस्तु प्रकृतहेतुव्याप्ति-पक्षधर्मातावैशिध्वस्य जन्ममितेश्चाप्रसिद्ध्या तदभावो ज्ञातुमुद्भावयितुवाशक्य एव।
लक्षणस्याव्याप्तिमभिधाय साधनविशेषणामियादिस्थले हेतुतावई दकविशिष्टहेत्वादेरप्रमियाऽसिद्धिलक्षणस्यासम्भवमाह, 'वस्तुतस्खिति, 'प्रचतहेविति हेतुतावच्छेदकविशिष्टहेतीरित्यर्थः, एतदप्रसिद्धिय पर्वतो वहिमान् काञ्चनमयधूमादित्यादिसाधनविशेषणाऽसिद्धिस्थले बोध्या, 'व्याप्तौति माध्यतावच्छेदकविशिष्टसाध्यनिरूपितव्याप्तेरित्यर्थः, एतदप्रसिद्धिश्च पर्वतः काञ्चनमयवहिमान् धूमादित्यादिमाध्यविशेषणसिद्धिस्थले बोध्या, 'पक्षधर्मतेति पक्षतावच्छेदकविशिष्टपक्षनिरूपितधत्वस्येत्यर्थः, एतदप्रमिद्धिश्च काञ्चनमयः पर्वतो वझिमान् धूमादित्याद्याश्रयासिद्धिस्थले बोध्या, वैशिष्यस्येति व्याप्तिपक्षधर्मतोभयवैशिष्यस्येत्यर्थः, एतदप्रसिद्धिश्च अयोगोलकं धूमवत् वहे हुदो वहिमान् धूमादित्यादिबाधसङ्कीर्ण सिद्धिस्थले बोध्या। न च 'वैशिध्यप्येत्यत्र द्वन्इसमासे बहुवचनापत्तिः समाहारबन्दस्य नियतविषयतया अत्र तदसम्भवादिति वाच्यं । “सान्दो विभापया एकवचनं भवति" इति पाणिन्यनुशासनादितरेतरद्वन्देऽप्येकवचनसम्भवात्। न चैवं धव-खदिरइत्यपि प्रयोगापत्तिरिति वाच्य। “इन्दैकत्वं" इति सूत्रेण बन्दस्य एकवचनवे नपुंसकलिङ्गतावश्यकत्वबोधनात् । न चैवं समाहारेतरेतरयोः कोभेद इति वाच । ममाहारबन्दस्य समाहारत्वप्रकारकबोधजनकत्वेनैव भेदात्तथैव चर) (१) तस्यैव चेति ख०, ग।