________________
तत्वचिन्तामो
व्याप्ति-पक्षधर्मताविशिष्टज्ञानविषयाभावत्वं प्रत्येकाभावानुगतमसिञ्चत्वं व्यभिचारादावसिद्धत्वेऽप्युपजीव्यत्वेन
वृत्तेः। न च तत्र बाधादेरनुभावनेऽपि विरुद्धमात्रोद्भावने वादी निवर्तते तो विरुद्धस्यापि हेत्वाभासत्वं अत्र तु प्रत्येकाभावानुद्भावने विशिष्टाभावमात्रोद्भावनेऽपि न वादिनिवृत्तिरिति न विशिष्टाभावस्य दोषत्वमिति वाच्यं । विशिष्टाभावमात्रोद्भावनेऽपि वादिनिवृत्तः, दस्मात् माध्यव्याप्यत्वे मति पक्षवृत्तित्ववान् हेतुरिति परामर्शस्थाप्यनुमितिहेतुत्ववादिनां प्राचानये व्याप्तिविशिष्टपक्षधर्मत्वाभाववद्धतरपि हेत्वाभासः म च व्याप्यत्वामिद्धावेवान्तभूत इति तत्त्वं । 'प्रत एवेति 'निरस्तमित्यनेनान्वयः, 'व्याप्तौति व्यप्ति-पक्षधर्मत्वोभयमात्रमुख्यविशेष्यकबुद्धिमुख्यविशेष्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभावत्वमित्यर्थः, नातो विशेषाभाव-सामान्याभावविकल्पाभ्यामतिव्याप्यसम्भवणकावकाशः,(९) अधिक सिद्धान्ने वक्ष्यामः, 'प्रत्येकाभावानुगतमिति व्याप्ति-पक्षधर्मतयोः प्रत्येकाभावदये वर्तमानमित्यर्थः, 'असिद्धत्वं' असिद्धिवं। नन्वेवं व्यभिचारादेः कथं दोषत्वं तदति हेतौ अमिद्धेरावश्यकत्वेन तस्यैव दोषत्वसम्भवादित्यत आह, 'व्यभिचारादाविति व्यभिचारादिमति हेतावित्यर्थः, प्रादिना विरोधपरिग्रहः, 'उपजीव्यत्वेनेति प्रसिद्धत्वज्ञानं प्रति
(३) व्याप्ति-पक्षधम्मताविशिवज्ञानविषयाभावत्वं यदि तादृशविषयप्रति
योगिकाभावत्वं तदा विशेषाभावे अतिव्याप्तिः, यदि तादृशविषयत्वावच्छिन्न प्रतियोगिताकाभावत्वं तदा सर्वत्रासम्भव इति तात्पर्य्य ।