________________
पसिद्धिपूर्वपक्षाः । न विशिष्टाभावज्ञानमित्युपजीव्यत्वादिशिष्टाभावानुडावनेऽपि प्रत्येकानावने वादिनिहत्तेश्च । अत एव
भाववभिन्नधर्मिकतया(९) च वैयर्थ्यशङ्कानवकाशाच्च इत्यरुचेराह, 'प्रत्येकाभावमिति, 'उपजीव्यत्वादिति प्रत्येकाभावज्ञानस्योपजीव्यवादित्यर्थः, तथाच प्रत्येकाभावज्ञानस्योपजीव्यतया प्रत्येकाभाव एव हेत्वाभामो न तु विशिष्टाभावः तज्ज्ञानस्य प्रत्येकाभावज्ञानस्योपजौवकत्वात् सामान्यलक्षणे चानायत्या विषकलितव्याप्ति-पक्षधर्मत्वोभयविषयताशालिपरामर्शप्रतिबन्धकत्वस्यैव निवेशाबातिव्याप्तिरिति भावः । नन्विदमप्ययुक्त प्रत्येकाभावमज्ञात्वापि प्रत्यक्ष-शब्दाभ्यां लिङ्गान्तरजन्यानुमानेन च विशिष्टाभावज्ञानसम्भवात् । न च तथापि प्रत्येकामावलिङ्गकानुमानेन विशिष्टाभावज्ञानं, प्रति प्रत्येकाभावज्ञानस्योपजीव्यत्वमस्येवेति वाच्यं। विभिष्टाभावलिङ्गकानुमानेन प्रत्येकाभावज्ञानं प्रति विशिष्टाभावज्ञानस्याप्युपजीव्यत्वेन क्वाचिकोपजीव्योपजीवकभावस्थाविशेषादित्यरुचेराह, “विभिष्टाभावानुद्भावनेऽपौति, एतदण्यापाततः, एवञ्च विरुद्धत्वादेरपि हेत्वाभासत्वं न स्यात् तदनुद्भावनेऽपि 'बाध-खरूपासियादेरगावने वादिनि
..... .... (९) धूमप्रागभावत्वस्य व्याप्यतावच्छेदक-धर्मान्तरधूमत्व-घटितत्वेऽपि
धूमत्वस्य धूमप्रागभावत्वासमानाधिकरणत्वात् यथा न तेन धूमप्रागभावत्वस्य व्यर्थविशेषण घटितत्वं तथा प्रत्येकाभावत्वस्य विशिछाभावत्वासमनाधिकरणत्वात् न तेन विशिवाभावत्वस्य व्यर्थविपो. घणघटितत्वमिति भावः।