________________
• तावचिन्तामों
नेशन्यथासिद्धयर्थ विशेषणत्वात् प्रत्येकाभावमञात्वा
मस्याप्यनुमितिहेतुतया तद्विरोधित्वेन विशिष्टाभावस्थापि हेत्वाभासवर) दुर्बार विनिगमकाभावेन तादृशविशिष्टप्रकारकपरामर्शप्रतिबन्धकत्वस्यापि सामान्यलक्षणघटकत्वात् माध्यव्याप्य हेतुमान् पक्षरति पक्षविशेष्यकपरामर्शस्यैवानुमितिहेतुत्वमिति नव्यमतानुयायित्वे व्याप्ति-पक्षधर्मत्वयोः दयोः प्रत्येकाभावस्थापि दोषलाभ्युपगमामङ्गतेः पक्षवृत्तित्वाभावज्ञानस्य तादृशपक्षविशेष्यकपरामर्शप्रतिबन्धकत्वादित्यरुचेराह, 'व्यर्थविशेषणत्वादिति इदमसाधकं व्याप्तिविशिष्टपक्षधर्मत्वाभावादित्यसाधकतानुमाने पक्षधर्मत्वाभावादित्यस्यैव सम्यक्के व्यर्थविशेषणवादित्यर्थः । तथाच हेत्वाभासत्वस्थासाधकताव्याप्यत्वनियमाड्यर्थविशेषणतया च विशिष्टाभावे तदभावेन न तस्य हेत्वाभासत्वं । न चैवं तत्र सामान्यलक्षणतिव्याप्तिरिति वाच्यं । तस्य हेत्वाभासत्वाभावेनानायत्या विषकलितव्याप्ति-पक्षधर्मत्वोभयविषयताशालिपरामर्शप्रतिबन्धकत्वस्यैव सामान्यलक्षणे निवेशनौयत्वादिति भावः । नन्विदमप्ययुक्तं व्यर्थविशेषणत्वेऽपि व्याप्तिमत्त्वात्(२) विशिष्टाभावत्वस्य प्रत्येकाभाववाघटिततया(२) विशिष्टाभावस्थातिरिक्तत्वेन धमप्राग
(१) तत्त्वमिति ग। (२) सघाच व्याप्तिशरौरे प्रयोजनविरहेण व्यर्थविशेषणाघटितत्वस्यानि
वेशनीयत्वेन व्यर्थविशेषणघटितस्यापि याप्यत्वमिति भावः । (३) प्रत्येकाभावत्वस्य व्याप्यतावच्छेदकधर्मान्तरत्वेऽपि तदघटितत्वेन न
स्थय विशेषणघटितत्वमिति भावः ।।