________________
बसिद्धिपूर्वपक्ष विशिष्टाभावधौहारा प्रत्येकाभावो दोषो न तु स्वत इति वाच्यं । प्रत्येकाभावस्य स्वतरव दोषत्वसम्भवात् । वस्तुता विशिष्ठाभावो दोष एव न प्रत्येकस्य समर्थत्वे
स्थाप्यसिद्धेरित्यपि बोध्यं । ननु प्रत्येकाभावज्ञानस्थानुमितिप्रतिबन्धकत्वेऽपि न तस्यासिद्धत्वमतो नाव्याप्तिरित्यतबाह, 'अन्यथेति, 'तेषां' प्रत्येकाभावानां, हेत्वाभाससामान्यलक्षणक्रान्तानामिति शेषः। माध्यादिभेदेन व्याप्यादीनां नानात्वाइहुवचनं, 'प्रत्येकाभावः' प्रत्येकाभावज्ञानं, 'न तु स्वतः' न तु साक्षात्, तथाच हेत्वाभाससामान्यलक्षणक्रान्तत्वमेव तत्र नास्ति अनुमिति-तत्कारणपरामर्शयोः साक्षात्प्रतिबन्धकत्वस्य तल्लक्षणघटकलादिति भावः । 'स्वत एव' साक्षादेव, ग्राह्याभावावगाहित्वादिति भावः। दूदमुपलक्षणं प्राश्रयासिद्धि-माध्यविशेषणसिद्धि-हेत्वमिद्धिषु चाव्याप्तिरित्यपि बोध्यं । 'दोष एव नेति हेत्वाभासएव नेत्यर्थः, कुतस्तद्विशेषोऽमिद्धिरिति शेषः,९) 'प्रत्येकस्य' प्रत्येकाभावस्य, ‘समर्थत्वे' दूषणसमर्थत्वे, हेत्वाभासत्वे इति यावत्, 'अन्यथासिद्धेरिति विशिष्टाभावस्य हेत्वाभासत्वं विनापि विशिष्टाभाववतः माधनस्य दुष्टत्वव्यवहारोपपत्तेरित्यर्थः, विशिष्टाभाववति प्रत्येकाभावस्थाप्यावश्यकत्वादिति भावः। ननु . माध्यव्याप्यो हेतुः पक्षवृत्तिरित्याकारकविषकलितव्याप्ति-पक्षलोभयविषयकपरामर्शस्यानुमितिहेतुत्ववादिनां प्राचां नये साध्यव्याप्यत्वे . मति पक्षत्तित्ववान् हेतुरिति व्याप्तिविभिष्टपचधर्मवप्रकारकपरा
(१) इति भाव इति ग।