________________
सत्यचिन्तामणोः
स्वादिति चेत्, न, एकानन्तरमपरहेतुव्याप्ति-पक्षधर्मताजानाभ्यामग्रिमव्याप्तिविशिष्टज्ञानोत्पत्तिकाले पूर्व परामर्शनाशात्। न चोभयहेतुव्याप्ति-पक्षधर्माता- . ज्ञानानां परस्पराप्रतिबन्धात् परामर्शत्पाद इति वाच्या व्यायादिज्ञानचतुष्टयस्य योगपद्याभावात्।
यत्तु व्याप्तिहयसंस्कारोबोधकहेतुइयज्ञानयोः परस्परप्रतिबन्धात् नेभियव्याप्तिस्मृतिरिति दूषकताबौजमिति । तन्न। व्याप्तिस्मृति विना सत्प्रतिपक्षाभावात् वादिभ्यां व्याप्त्युद्भावनाचेति। मैवम् । हेतुद्दयसमूहालम्बनायुगपदुभयव्याप्तिस्मृतावुभयपरामर्शरूपं ज्ञानमुत्पद्यते, अत एकदा बिरुद्धकार्य्यद्दयकारणन्नैकमपि कार्यमुत्पद्यते, तादृशपरामर्शश्च स्वार्थानुमाने प्रत्यक्षादितः, परस्य तु वाद्युपन्यस्तन्यायोत्यापितप्रमाणा
शकते, 'नन्विति, ज्ञानदययोर्योगपद्याभावादिति भावः । सिद्धान्तयति, ‘क्रमेति, 'सत्त्वादिति 'प्रतिरोध इत्यन्वयः, एकानन्तरं, एकहेतोः परामर्शानन्तरं, 'अपरेति अपरहेतौ व्याप्तेः पञ्चधर्मत्वस्य च ज्ञानेनेत्यर्थः, तथाच दित्वमविवक्षितं, 'ज्ञानेति एकहेतुकव्याप्तिशान तत्परामर्श-हेत्वन्तरव्याप्तिज्ञान-तत्परामर्शात्मकज्ञानचतुष्टयस्येत्यर्थः । माध्यस्य केवलान्वयित्वधौदशायां पक्षधर्मिक-तत्तदभावोभयव्यायवत्तापरामर्शासम्भवात्तदानौं तत्प्रतिपक्षो नास्तौति मोन्दङमतं