SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ सत्प्रतिपक्षसिद्धान्तः। ५ वतारात्। अस्य च केवलान्वयिन्यपि सम्भवः घटोऽभिधेयः प्रमेयत्वादित्यचाभिधेयत्वं घटनिष्ठात्यन्ताभावप्रतियोगिजात्यन्यत्वे सति घटमात्रवृत्त्यन्यधर्मत्वात् घटान्योन्याभाववत् पटरूपवञ्च, घटनिष्ठात्यन्ताभावोऽभिधेयत्वप्रतियोगिकः घटत्तिनित्याभावत्वात् घटनिष्ठान्योन्याभाववदिति विशेषादर्शनदशायां, न निरस्यति, 'अस्य चेति, 'अस्य' विरोधिपरामर्शात्मकप्रतिपक्षस्य, 'केवलान्वयिनि' तत्त्वेन ग्रहोतसाध्यके, 'घटेत्यादि, प्रतियोगित्वं स्वरूपसम्बन्धेन ग्राह्यं तेन संयोगेनाभिधेयत्वस्याभावमादाय न सिद्धसाधनं, सत्ताद्याश्रयत्वे व्यभिचारस्य वारणाय 'सत्यन्तं जात्याश्रयतान्यत्वे सतीत्यर्थकं, घटत्वादिप्रकारकप्रमाविशेष्यत्वे तद्वारणाय 'घटमात्रेत्यादि, घटवृत्त्यन्यत्वं अभिधेयत्वे स्वरूपासिद्धमतो मात्रपदं। ननु घटनिष्ठत्वं अवश्यं दैशिकविशेषणतया वाच्यं अन्यथा जातिमत्वादेरभावस्थापि कालिकादिसम्बन्धेन घटनिष्ठत्वाद्धेतोर्यर्थविशेषणत्वापत्तेः तथाच घटान्यत्वाभावस्य घटत्वस्वरूपस्य तादृशसम्बन्धेन घटावृत्तित्वात् तत्प्रतियोगिनो घटान्योन्याभावस्य दृष्टान्तवायोगादाह, 'पटरूपवञ्चेति, 'पेटत्यविवक्षितं, 'घटनिष्ठेति, अत्राप्यत्यन्ताभावः स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताको ग्राह्यः तेन न पूर्ववत् सिद्धसाधनं, हेतौ च घटवृत्तित्वं घटत्वाभावे नित्यत्वं घटनिष्ठध्वंसेऽभावत्वं घटत्वादौ व्यभिचारस्य वारणय, 'अन्योन्येति घरवृत्त्य
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy