________________
सत्तविपक्षसिद्धान्त
विरोधिसाधनज्ञानमाचादिति चेत्, न, असति मतिपक्षे न जिज्ञासा सति तु सेत्यन्वय-व्यतिरेकाभ्यां प्रकरणसमस्यापि जिज्ञासाजनकत्वात् । न चानैकान्तिकातिव्याप्तिः, तत्र हि संशयहारा साध्ये जिज्ञासा अच तु हेतुसमौचौनत्व इति। ननु परामर्शयोरेकदानुत्पादात् कथं प्रतिरोधः, कमात्पवयोरेकदा स
धान्न म इति भावः । 'ज्ञानेष्टसाधनताज्ञानादिति खमते, 'संशयादिति तु निबन्धचन्मते, तैः माध्यसंशयद्वारा अनेकान्तिकस्य साथजिज्ञासाजनकताया अनुपदं वक्ष्यमाणत्वात्, 'ज्ञानमात्रादित्यत्र मेत्यनुषज्यते, 'जिज्ञासाजनकत्वादिति, कार्यतावच्छेदकस्य सङ्कोचाच्च न व्यभिचार इत्याशयः । लक्षणस्थस्य प्रकृतमाध-हेलोरित्यस्य हेतुपदव्यत्यासेन प्रकृतहेतुकज्ञानविषययोरित्यर्थं मत्वा शङ्कते, 'न चेति, जिज्ञासायाः साचाजनकत्वं वक्तव्यं हेलोः प्रामाणिकलजिज्ञासा वा निवेशितेत्याशयेन परिहरति, 'तत्र हौति । न च जिज्ञासाजनकस्थापि विरोधिपरामर्शदयस्य ज्ञानं यदि नानुमितिप्रतिबन्धकं तर्हि कथायां तदुपन्यासो न स्यादिति वाचं। प्रमाणदूषणस्थापि तस्याधिकलादेरिव(१) निग्रहस्थानविधयोद्भाव्यत्वमिति निबन्धातामाणयादिति ध्येयं।
(१) तस्यार्थान्तरत्वादेरिवेति ख, ग ।